________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१८५
गोभिलीयगृहकर्मप्रकाशिका । इन्यमाने विदारणरहित-मेकवर्ण-मशुष्क-मनुषरं, सर्वदिक्ष मरुप्रदेशरहितं, सदा जलेनाक्लिन्नम्, ब्रह्मवर्चसकामस्य दर्भसंयुक्तं, बलकामस्य वीरणादिमहातॄणसहितं, पशुकामस्य मृदुतणयुतं, चतुरखं, वोन्नतं, मण्डलाकारं वा, सर्वदिश्चि नरेतराभिमुखावस्थितस्वयमुत्पन्नाल्पगतयुक्तां, भस्थानं जोषयेत्” । सेवयेहित्यर्थः । परिगृह्णीयादिति यावत । तस्मिन्न तलक्षणे प्रदेश, "यशस्कामो बलकाम: प्रारदारं गृहं कुर्वीत, पुत्रपशुकाम उदग्दारं, सर्वकामो दक्षिणहारम् । प्रत्यग्हारं न कुर्वीत । अनुहारं न कुर्वीत । गृहदारं न कुर्वीत” ॥ यथा गृहमध्ये सन्ध्योपासनहामार्चनभोजनादीनि कुर्वतां गृहाइहिर्बतिनिन्यजनानां दर्शनं न भवेत्तथा गृहं कुर्वीत ॥ “वर्जयेत्पूर्वतो ऽश्वत्थं लक्षं दक्षिणतस्तथा । न्यग्रोधमपराद्देशादुत्तरे चाप्युदम्बरम ॥ १ ॥ अश्वत्थादग्निभयं ब्रयालक्षायात्प्रमायुकाम् । न्यग्रोधाच्छस्त्रसम्पीडामक्ष्यामय उदुम्बरात्” ॥ २ ॥ प्रमायुका नष्टायुषः । अक्ष्यामय अक्षिरोगः ॥ “आदित्यदैवतो ऽश्वत्थः लक्षो ऽयं यमदैवतः । न्यग्रोध वारुणो वृक्षः प्राजापत्र उदुम्बर” इतिसूचाटुक्तस्थानान्यतमस्थानस्थिताश्वत्यादिवृक्षयुनस्थानं परिवज्जयेत् । “स्थानान्तराभावे उक्तदिगवस्थितानश्वत्थादीन्समूलमुद्दरेत्" इति केचियाख्यातारः । समूलक्षोहरणे यस्य वृक्षस्य या देवतोक्ता तां देवतामभियजेत । अत्र विशेषानुक्तेरभियजेतेति सामान्यचोदनया तत्तद्देवताकवैदिकमन्त्रजपो वा ऽऽज्यहोमो वोभयं वा ग्राह्यं, “तदुक्तं मनुना' ।
For Private And Personal