________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१८३
गोभिलीयगृह्मकर्मप्रकाशिका। पञ्चभिरिभरादित्यमुपतिष्ठेत। प्रातःकाले, दिश: प्रातरन्हस्य तेजम इति पाठ: । मध्यान्हे, मध्यन्दिनस्य तेजस इतिपाठः । अपराले, अपराह्नस्य तेजस इतिपाठः । एषां मन्त्राणां प्रजापतिषिर्निगद आदित्यो देवतोपस्थाने विनियोगः । यशोऽहं भवामि ब्राह्मणानां यशो राज्ञां यशो विशां । यशस्सत्यस्य भवामि भवामि यशसां यशः ॥ १ ॥ पुनमी यन्तु देवता या मदपचक्रमुः । महस्वन्तो महान्तो भवाम्यस्मिन् पाचे हरिते सोमपृष्ठे ॥ २ ॥ रूपंरूपं मे दिशः प्रातरन्हस्थ तेजसः । अन्नमुग्रस्य प्राशिषमस्तु वयि मयि त्वयोदमस्तु त्वयि मयीदम् ॥ ३ ॥ यदिदं पश्यामि चक्षुषा त्वया दत्तं प्रभासया । तेन मा भुञ्ज तेन भुक्षिषीय तेन मा विश ॥ ४ ॥ अहनी अत्यपीपरद्राचिनी अतिपारयत । राचिनी अत्यपीपरदहनी अतिपारयत ॥ ५ ॥ इति यशस्कामोपस्थानप्रयोगः ।
अथ स्वस्त्ययनकरोपस्थानमुच्यते ॥ तच्च प्रातःकाले नित्योपस्थानान्ते आदित्यं नावमित्य चोद्यन्तत्वेतियजुषा च कर्तव्यम् । सायमपरान्हे काले आदित्यं नावमित्यचा प्रतितिष्ठन्तत्वेतियजुषा चोपस्थानं कर्तव्यम् । “उपस्थानमन्त्रे आदित्यपदश्रुतेरादित्यस्योपस्थानम्” इति शिष्टा मन्यन्ते । आदित्यं नावमारोक्षमितिमन्त्रस्य प्रजापतिषिरनुष्ट छन्द आदित्यो देवता स्वस्त्ययनोपस्थाने विनियोगः । आदित्यं नावमारोक्षं पूर्णामपरिपादिनीम् । अच्छिद्रां पारयिष्णवी शतारिका स्वस्तये । जे नम आदित्याय, नम आदित्याय,
For Private And Personal