________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोभिलीयरह्माकर्मप्रकाशिका । अथ क्षुद्रपशुस्वस्त्ययनप्रयोगः । अस्य फल क्षुद्रपशनामजादीनामायुरारोग्यप्राप्तिः । यदा चन्द्रमाः परिवेषितो भवेत्तदा तिलतण्डलान् तृतीयया पूर्ववज्जुहुयात्पश्चादुपवासः । अस्याः प्रजापनिषिरनुष्टपछन्दश्चन्द्रमा देवता बितण्डलहामे विनियोगः । अभि भागो ऽसि सर्वस्मिथस्तदु सर्वं त्वयि श्रितम् । तेन सर्वण सा माविवासन विवासय स्वाहा। चन्द्रायेदं न मम ॥
अथ स्वस्त्यर्थकर्मप्रयोग उच्यते ॥ यानर्थान् साधयितुं पुरुषो ऽन्यत्र गच्छति गमनात्पूर्व चतुर्था चाऽऽदित्योपस्थानं कर्तव्यं, तेनाभिप्रेतार्थवान् स्वस्तिमांश्च पुनरागच्छति । अस्या पाचः प्रजापतिषिरनुष्टुप्छन्द आदित्यो देवतोपस्थाने विनियोमः । कोश इव पूर्णा वसूनां त्वं प्रीतो ददसे धनम् । अदृष्टो दृष्टमाभर सर्वान् कामान् प्रयच्छ मे ॥ ___अथ प्रवासाहहागमनप्रयोगः ॥ पञ्चम्या सूर्यमुपस्थाय प्रवासाहुहमागच्छेत् । अस्या ऋचः प्रजापतिषिरनुष्ट छन्द
आदित्यो देवतोपस्थाने विनियोगः । आकाशस्यैष आकाश यदेतद्भाति मण्डलम् । एवं त्वा वेद यो वेदेशानेशान् प्रयच्छ मे ॥ वृक्ष इवेत्यादयः पचर्चप्रयोगास्समाप्ताः ॥ ___ अथानकाममारकर्मप्रयोग उच्यते ॥ तस्य फल कुष्टराजयक्ष्मादिभ्यः पापरोगेभ्यः परप्रयुक्ताभिचाराच्च यनयं तन्नितिः । तदर्थमहरहनित्यकर्मानुष्ठानान्ते भूर्भवरस्वरो सूर्य दूवेति मन्त्रमनकाममाराख्यं जपेत् । अस्य मन्त्रस्य
For Private And Personal