________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
-
गोभिलीयगृह्मकर्मप्रकाशिका । स्वाहापदमुच्चार्यास्येनोदके आस्यस्थतण्डुलान् जुहुयात् । प्रतिस्वाहाकारं होमः । अस्या करच: प्रजापतिरीषिरनुष्टपछन्द आदित्यो देवता ऽक्षततण्डलहोमे विनियोगः । वृक्ष इव पक्वस्तिष्ठसि सर्वान् कामान् भुवस्य से । यस्त्वेवं वेद तस्मै मे भोगान धुक्ष्वाक्षसान हन् स्वाहा ॥ आदित्यायेदं न मम । एवं वक्ष्यमाणाभिश्चतसृभिः स्वाहान्ताभिर्टग्भिरक्षततण्डुलाम् जुहुयात्प्रत्यचम् । एतै मेन गृहक्षेत्र राज्यादिप्राप्तिः । अतः पार्थिवकर्मति नाम ॥
अथास्यामेवोक्तचि भोगार्थ कमाच्यते ॥ चिराचमुपोध्योपवासान्ते पौर्णमास्यां मध्यान्द यस्य धनिकस्य सकाशादात्मनो भोगान् साधयितमिच्छेत्तस्य सन्दर्शने स्थित्वा वृक्ष इवेत्यूचा ऽऽदित्यमुपतिष्ठेत । एवमुपस्थानेनाभिप्रेतार्थसिद्धिर्भवति ॥ __अथ वृहत्पत्रत्वस्त्ययनप्रयोगः ॥ तस्य फलं महावाहनानां वस्त्यश्वादीनामायुरारोग्यसिद्धिः । तदर्थमादित्ये परिवेषसंयुक्तेऽक्षततण्डुलान्वितीययची क्षिप्रहामविधिनाऽग्नौ जुहुयात् ।
आदित्यपरिवेषस्यानियतकालत्वादेतत्कर्म कृत्वा पश्चाचिराचव्रतमनुष्ठेयम् । अस्याः पूर्ववदृषिच्छन्दोदेवताः, पचस्वस्ययनार्थमक्षततण्डलहोमे विनियोगः । तथ् सत्ये प्रतिष्ठित भूतं भविष्यता सह । आकाश उपनिरज्जतु मद्यमन्त्रमथो श्रियं स्वाहा । आदित्यायेदं न मम ॥
For Private And Personal