________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
in
गोभिलीयकर्मप्रकाशिका |
धान्ये समागते पर्यायण यज्ञः कर्त्तव्यः ॥ सीतायज्ञः शरदि वसन्ते च भवति । सीतायज्ञादिषु हलाभियोगस्थालीपाकाक्ता नव देवता आज्येन यष्टव्याः | अचाज्यतन्त्रम् । 'क्षिप्र होमत्न्त्रम्' इति केचित् । ततः सीतायनादीनामन्त उक्तकाले निम होमविधिनाऽग्नावाखुराजाय स्वाहेत्येकामाज्याहुति जुहोति । अचाखुराजयक्षं करिष्ये इति सङ्कल्पः ॥
अथेन्द्राणी स्थालीपाकप्रयोग उच्यते ॥ अस्य स्थालीपाकस्यैकाष्टके तिनामान्तरम । प्रोष्टपद्या उई कृष्णाष्टम्यामिन्द्रागस्थालीपाकं करिष्ये इति सङ्कल्य सर्वं पार्वणस्थालीपाककुय्यात् । निर्वापकाले, इन्द्राण्यै त्वा जुष्टं निर्वपामीतिनिवीपः । श्राज्यभागान्ते चरुमवदायैकाष्टकातपसेतिमन्त्रे रौकामाहुति जुहोति । अस्य मन्त्र य प्रजापतिर्ऋ षिस्त्रिष्टुप् छन्द इन्द्राणी देवता स्थालीपाक हो मे विनियोगः । एकाऽष्टका तपसा तप्यमाना जजान गर्भं महिमानमिन्द्रं । तेन देवा असन्त शत्रून् हन्ता सुराणामभवच्छ चीभिः स्वाहा ॥ इन्द्राण्या इदं न मम । इति नित्यनैमित्तिक प्रयोगविधिरुक्तः ॥
ऊर्द्ध काम्येषु कर्मसु विधीनुपदेक्षन्त्याचार्य्यः । “वक्ष्यमाणविधीनां पूर्व केषु नित्यनैमित्तिकेषु चानुष्ठानं भवतीति केचिदाचार्य्यं मन्यन्ते" इति भगवान् सूचकार आच ॥ वक्ष्य माणकर्मकरणमन्त्राणां ‘मन्त्र काण्डे नित्यनैमित्तिक क्रम पशुक्तमन्त्र गठानन्तरमेव पाठात्काम्येयेवानुष्ठानं वेदपुरुषाभिप्रेतम्” इति मिष्टानामाशयः । अत एवास्माभिः पूर्वषु कर्मसु न्यच्च
For Private And Personal