________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोभिलीय कर्मप्रकाशिका ।
पिपीलिकामध्योक्किन्दः पितरो देवता निण्डपरिषेचने विनियोगः । ऊर्जं वहन्तोरमृतं एतं पयः कीलाल परिस्रुतः स्वधा स्थ तर्पयत मे पितृन् ॥ ततो मध्यमपिण्डं पत्न्यै प्रयच्छति पुचकामा चेत्पत्नी, सा च मन्त्रेण प्राश्नाति । अस्य प्रजापति बिर्गीय चीकन्दः पितरो देवता पिण्डप्राशने विनियोग: । आधत्त पितरो गर्भं कुमारं पुष्करस्रजम् । यथेच पुरुषः स्यात् ॥ अथवा, यजमानपुचपैौचभ्राचादिर्भजेत् ।
भून्नो दूत इति मन्त्रेणोल्मुकं जलेनाभ्युक्ष्य हन्दं चरुस्थाल्यादिकं प्रक्षाल्यान्यत्र स्थापयेत् । अस्मिन्नेव क्रमे दक्षिणादानादिकं मासश्रावत्कृत्वा ब्राह्मणान्विसर्जयेत् । अस्य मन्त्रन्य प्रजापतिर्ऋविस्त्रिष्टुप् छन्दोऽग्निवतो ल्युकाभ्युक्षणे विनियोगः । अभून्नो दूतो हविषा जातवेदा अवाढव्यानि सुरभीणि कृत्वा । प्रादात्पितृभ्यः स्वधया ते अक्षन् प्रजाननग्ने पुनरेहि योनिम् ॥ ततो वामदेव्यं गीत्वा जले पिण्डान् प्रक्षिपेत् । प्रणीते ऽग्नौ वा क्षिपेत् । ब्राह्मणं वा भक्षयेत् । अथत्रा गवे दद्यात् ॥ इत्यन्वष्टक्यप्रयोगः ॥
For Private And Personal
૧૬૨
नान्दीमुखश्राद्धप्रयोग विधिरुच्यते । जातकर्मादिषु, पूर्त्तकर्मसु च, नाम्दीमुखश्राद्धं कर्त्तव्यम् । तच पिचर्थं युग्मान्ब्राह्मणानाशयेत् । प्रादक्षिण्येनासनाद्युपचाराः कर्त्तव्याः । तिलार्थे यवाः, अन्ये च विधयः कर्मप्रदीपोताग्राच्चाः । गोभिलसूचानुसारिणां श्राद्धप्रयोगमग्रे वक्ष्यामः ।
अथ पिण्डपितृयज्ञप्रयोगः ॥ अन्वष्टक्यस्थालीपाकवत्पि