________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
-
-
-
गोभिलीयगृहकर्मप्रकाशिका ।
१६० मित्ते नैमित्तिकस्य युक्तत्वान्नित्यमन्त्रानुग्रहाच्च” इति वदन्ति। यथोचितमत्र ग्राह्यम् । अव पित्रादिनामापरिज्ञाने पृथिविषदादिनामान्तरविधानादितः पर्वविहितेष्वर्ण्यतिलोदकगन्धावनेजनोदकदानेषु पृथिविषदादीनां नाम्नां सम्बोधन विभक्त्यन्तानां प्रयोग जह्यः । अहो यथा । पृथिविषदेतत्ते ऽयम् । अन्तरिक्षसदेतत्ते ऽर्थम् । दिविषदेतत्ते ऽर्य्यम् । एवं तिलोदकादिषु । एवं चीन पिण्डान्निधायात्र पितरो मादयध्वमिति जपनि । अस्य मन्त्रस्य प्रजापतिकषिर्यजुः पितरो देवता जपे विनियोगः । अत्र पितरो मादयध्वं यथाभागमा: षायध्वम् ॥ अप्रादक्षिण्येन प-रत्योदमखो वा ऽनुच्छसन्नमीमदन्त पितर इति जपति । अस्य मन्त्रस्य प्रजापतिषियजुः पितरो देवता जपे विनियोगः । अमीमदन्त पितरो यथाभागमावषादषत ॥ ततस्तेनैव पर्यावर्तमान आगत्योच्छसेत् । ततो वामहस्ते नाक्तदर्भपिञ्जलीं गृहीत्वा दक्षिणेनादाय सत्येनान्वारभ्य पितृतीर्थन पिपिण्डे स्थापयेत्पितनामयुक्तमन्त्रण । मन्त्रश्च । अमुकशर्मन्नेतत्त आञ्जनं ये चात्र त्वामनु यारश्च त्वमन तस्मै ते स्वधा । अप उपरपृश्य । एवं पितामहपिण्डे प्रपितामहपिण्डे च तत्तन्नामयुक्तमन्त्रेण दर्भपिञ्जली स्थापयेत् । एवं तिन्नतैल सुरभिचन्दनं च दद्यात् । अमुकशर्मन्नेतत्ते | ति नतैलमित्यूहः । अमुकशर्मन्नेतत्ते सुरभिचन्दनं । अन्यत्सर्वे पूर्ववत् । अथ यजमान उत्तानदक्षिणपाण्युपरि वामहस्तमधोमखमितरेतरसंलग्नं कृत्वा पर्व वाप्य, नमो वः
For Private And Personal