________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
-
-
१६३
गोभिलीयगृह्मकर्मप्रकाशिका । "अग्न्याशाप्रैः कुशैः कार्यं कर्पूणां स्तरणं धनैः । दक्षिणान्तां तदोस्तु पितृयज्ञे परिस्तरेत्” इति कर्मप्रदीपस्मरणादग्निदिगग्रैः परिस्तरणं कर्त्तव्यम् । अत्रापि प्राचीनावीतमग्निदिगभिमुख्यं च कर्तुः । ततो गतीनां पश्चादक्षिणायैः कुशैः प्रस्तरमास्तारयेद्दक्षिणाप्रवणम् । तस्मिन् प्रस्तरे काष्ठमयमासनमपदध्यात । आसनस्य स्थापनं नोपवेशनार्थ किन्त्वदृष्टार्थ, प्रस्तरे आसनासम्भवात् । तस्मिन् वीण्यदक| पात्राणि वक्ष्यमाणानि द्रव्याणि वैकैकशः स्थापयेत् । अन्ये तु, "पुत्रादिः पूर्वमासादितानामेकमेकं यजमानस्यामादक्षिण्येनाहरति, यजमान आहृतं प्रस्तरे सादयति” इत्याहुः । प्रकृते प्रस्तरे चरुस्थालोइयं कांस्यपात्रं दौमुदकं समिइयं पिञ्जनीमेकां चान्यान्यप्यासादयति । तान्यच्यन्ते । पत्नी प्रकृते बहिषिशिला संस्थाप्य चन्दनादिगन्धद्रव्यपेषणं करोति। तस्यामेव शिनायां सौवीराजनस्य घर्षणं कृत्वा तेनाञ्जनेन तिम्रो दर्भपिचनीराीकरोति मध्येमध्ये किञ्चिदन्तरं कृत्वा। ततश्चन्दनमञ्जनासक्तदर्भपिञ्जलीश्च तिलतैलं क्षौमदशां च स्वस्तरे स्थापयति । ततः पूर्वनिमन्त्रिताननिन्दितांश्छ्रेष्ठानदमखानयुग्माब्राह्मणान् पित्राद्यर्थ गतीनां दक्षिणतपशुची देश उपवेशयेत् । अव निमन्त्रणवरणकमो ऽन्यतो ग्रायः । विश्वेटेवार्थ युग्मब्राह्मणेपवेशनमप्यन्यतो ग्राह्यं, अस्माभिप्रश्राद्यायोगे वक्ष्यते । अत्र यावत्सत्रोक्तं तावत्पदश्यते । प्राचीनावीत्युपविष्टेभ्यो ब्राह्मणेभ्य आसनार्थ दभीन् प्रदाय तूष्णीमुदक
For Private And Personal