________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१५६
गोभिलीयरह्मकर्मप्रकाशिका । चेन्न । वपाहोमविध्युत्तरं, “स्थालीपाकरतान्यत्" इत्युपदिष्टान्यकर्मणां स्थालीपाकत्सिवत्वात, "हुत्वा चानुमन्त्रयेत” दू. त्यच चेनोपस्थितहामानुमन्त्रणयोर्मध्येऽनुपदिष्टब्रह्मोपवेशनादीनामपि कर्त्तव्यतायास्मूचितत्वाच्च । स्पष्टोऽयमा गृह्यसूत्रभाष्ये नारायणी ये । तत: प्राचीमेकालां, प्रत्यगयां शिलां, वपाश्रपणीमग्नावनुग्रहरेत । “अचानुशब्दप्रयोगाइपाश्रपणीप्रहरणात्पूर्व वक्ष्यमाणकर्मापयुक्तपात्रासादनं कर्त्तव्यम्” इति मन्यन्ते । अन्ये तु, “वपाश्रपणीहोमस्य वपाहामोत्तरकालि कनियमार्थाऽनुशब्द" इत्याहुः ॥ ततोऽग्नेरुत्तरतो ब्रीहीनुलखल मुसल शर्षे चरुस्थाली पविचे मेक्षणइयं क्षरं कांस्यपाचचयं सक्षशाखायुक्तं प्रस्तरञ्चासादयेत् । अत्र पात्राणां इन्दश | श्रासादनम् । तत: सर्वाण्यङ्गानि गृहीत्वाऽग्नौ अपयेत् । वामं सक्थि लोमानं च वक्ष्यमाणान्वष्टक्याय स्थापयेत् । "तानि चाङ्गानि कर्मप्रदीपे' । हृज्जिह्वा कोडसक्थीनि यवहक्यो गुदं स्तनाः । श्रोणिः स्कन्धशटा पार्श्व पश्वगानि प्रचक्षते ॥ पार्श्वस्य दृक्यसक्योश्च हित्वादाहुश्चतुर्दश” ॥ अवत्तान्यङ्गानि हत्कांस्यपाचे निक्षिप्य प्रकृतगृह्याग्नौ अपयति । अस्मिन्नेव क्रमे ऽष्टकायै त्वा जुष्टं निर्बपामीति बीहीनिरुप्यावहत्य विष्फलीकृत्य प्रक्षाल्य अपयति । ततः शृतमोदनचरूं मांसचरं च प्रादक्षिण्येन पृथङ्नेक्षणाभ्यां मिश्रीकरोति । यद्यपि पणा: शामिचाग्नौ अपणमुपदिष्टं, तथाप्यत्र "तस्मिनेवाग्नी अपयति" इति सूचकृटुक्त याग्नी श्रपणं, न तु
-
For Private And Personal