________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोभिलीयगृह्मकर्मप्रकाशिका। १५५ अस्य मन्त्रस्य प्रजापतिषिरनुष्टपछन्दोऽग्निर्देवता संज्ञप्तहोमे विनियोगः । यत्पशुमीयमकृतोरोपभिराहत । अग्निमी तस्मादेनमा विश्वान्मध्वत्वरहसः स्वाहा ॥ अग्नय इदं न मम । ततः पत्नी चोदकमादाय पशोभिं, सप्त द्वाराणि, स्तनचतुष्टयं, नाभि, श्रोणिमपानं च प्रक्षालयति । "क्षालनं दर्भकूर्चन” इति कर्मप्रदीपोक्तः । गवि स्तनचतुष्टयं नाजे । "पत्नी चेति च-शब्दाह कूर्चस्योपादानम्” इति भहनारायणोपाध्यायः । नाभेरग्रतः पूर्वासादितपवित्र प्रागग्रेऽन्तीय क्षरेणानुलोम छित्त्वा मांसचर्मणोरन्तरवर्तिनी बपामुद्दरन्ति । अब बहुवचनाइपोहरणकर्तुरनियम: । तत उद्दतां वां पूर्वासादितशाखाविशाखयोः काष्ठयोः प्रसार्याभ्युक्ष्याग्नौ अपयेत् । ततः पक्कायां वपायां यथा न प्रागग्नेभूमि शोणित गच्छेत तथा विशसथेति सम्प्रेषणं यजमानोऽन्यान् प्रति वदेत् । एतेनाग्ने:पूर्वस्यां दिशि विशसनं ज्ञायते । शृतां धपामभिघाऱ्यांदगुहास्य प्रत्यभिघारयेत् । तत: सुचि सकृदुपस्तीयं कृत्स्त्रां वां क्षुरेणावदाय हिरभिघारयति च्यारेयापाम । पञ्चार्षयाणां तु, हिरुपस्तीयं कृत्स्ना वपामवदाय हिरभिघारयति । ततोऽष्टकायै स्वाहेति बपां जुहोति । अष्टकाया इदं न मम। ततोऽन्यत्कर्म स्थालीपाकवत्कर्त्तव्यम। अत्र किञ्चिद्दिचार्यते । ननपस्थितिहोमप्रभृति वयाहोमातकर्मणां क्रमेणोपदेशान्मध्ये ब्रह्मोपवेशनादीनि कर्माणि कथं? अब पर्वमभिहितानि, सौचकर्मपौर्वापर्याविरोधादिति
For Private And Personal