________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१५४
गोभिलीयगृहकर्मप्रकाशिका । रुपस्थिति होमे विनियोगः । यत्पशवः प्रध्यायत मनसा हृदयेन च । वाचा सहस्रपाशया मयि बध्नामि वो मनः स्वाहा ॥ पशुभ्य इदं न मम । तत उपविष्टे ब्रह्मणि पाचाण्यासादयति। यमिश्रोदकं पवित्र क्षरमेकशाखाविशाखे पलाशकाष्ठे बहिरिभमाज्यं समिधौ खुक्स्चुवावाज्यस्थालीमनुगुप्ता अपश्चासाद्याज्यतन्त्रणाज्यसंस्कारान्तं प्रकृतिवत्कयर्यात। ततः पशुमनामिकाग्रेण स्पृशन्ननु त्वा माता मन्यतामित्यनुमन्त्रयते । अस्य मन्त्रस्य प्रजापतिषिरनुष्ट छन्दः पशुदैवताऽनुमन्त्रणे विनियोगः । अनु त्वा माता मन्यतामनुपिताऽनुभ्राताऽनुसगयाऽनुसखा सयूथ्यः । ततो यवयुक्तेन जलेन पशं प्रोक्षति। तच मन्त्रः, अष्ट कार्य त्वा जुष्टं प्रोक्षामीति सौचः । उल्मुकेन पशुं प्रदक्षिणीकुर्यात्परिवाजपतिरित्यूचा । अस्याः प्रजापतिषिर्गायत्रीछन्दोऽग्निर्देवतोल्युकेन पशुपरिहरणे विनियोगः । परिवाजपतिः कविरग्निहव्यान्यक्रमीत् । दधद्रत्नानि दाशुषे ॥ पशुपानार्थं जलं तूष्णीं दद्यात् । व्याहृतिभिरन्ये । पीनशेषमुदकं पशोरधोभागे सिञ्चेन्मन्त्रेण । अस्य प्रजापतिषिर्यजुः पशुवतोदकसेचने विनियोगः । आत्तं देवेभ्यो हविः ॥ अथैनं पशुमुत्तरस्यां दिशि नीत्वा संज्ञपयन्ति । बहुवचनादन्ये बहवः संज्ञपनकतारः सूचाम्सरग्रसिद्धाशमितारो ग्राह्याः । एतेषां कल्पनमपि पाचासादनकाले । ते च शमितारो देवदैवत्ये पशी प्राक्शिरसमुदक्पादं संज्ञपयन्ति । पिटदैवत्ये दक्षिणाशिरसं प्रत्यकपादं संज्ञपयन्ति । मृते पशौ यत्पशुरिनिमन्त्रेण जुहोति ।
For Private And Personal