________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोभिलीयकर्मप्रकाशिका |
मात्रान् खादिरान् पालाशान् वा सत्वक्कानष्टादशेध्मान्बभीयात | खादिर-पालाशाभावे, आश्वत्थानादुम्बरान्सर्ववृक्षजान्वा गृही यात् । विभीतक तिल्वक-बाधक नीव-निम्ब राजवृक्ष- शाल्मल्यर- दधित्य- कोविदार - श्लेषमान्तक वर्जम् ॥ ततः स्कन्ध स्थानादुपरिच्छिन्नान् साग्रानरत्निमाचान् बाहुमाचान्वा बर्हिष आनीय परिस्तरणार्थं बभीयात् । कुशालाभे विश्वामिचादीन् सर्वेट - पानि वा गृह्णीयात् । शक तृण- शर शीर्य-बल्वज-मुतव नलशुण्ठवर्जम् ॥ पिण्डपितृयज्ञादौ मूलसमीपप्रदेशे छिन्नान्दर्भीन् गृह्णीयात् । अथाज्यं स्थालीपाकार्थं व्रीहीन यवान्वाऽऽज्यस्थानीं मेक्षणं स्रुक् - स्तुवै निर्वपार्थं कांस्यपाचं चरुस्थालीमुलूखल मुसलं शूर्पमनुगुप्ता अपः पूर्णपाचच्चापकल्पयेत् । सङ्कल्पप्रत्येतदन्तं कर्मन्वाधानमा पवसथिकमित्याचक्षते ॥ एतत्कर्म यागस्य पूर्वदिने कर्त्तव्यम् । ततः परेद्युः प्रतिपदि प्रातहीमानन्तरं तूष्णीं समिधमाधाय भूमिजपपरिसमूह ने कुर्यान्नवा कुर्यात् । यदि सङ्कल्यानन्तरं ब्रह्मवरणं न कृतं तदाऽस्मिन्नेव काले कुर्यात् । अमुक-स्थालीपाकहोमकर्मणि ब्रह्माणं त्वामहं वृणे इति विप्रहस्ते दर्भान्दद्यात् । वृतोऽस्मि कर्मकरष्यामीति ब्रह्मा प्रतिवदेत् ॥ ततो यजमानोऽग्रेणाग्निं गत्वाऽनेईक्षिणत आग्न्यमारभ्य दक्षिणाग्रामविच्छिन्नामुदकधारां दत्वा, प्रागग्रान्दर्भान् ब्रह्मासनार्थमास्तीर्य्य, यथेत मागत्य, पाचाण्यासादयति ॥ ततो ब्रह्माऽग्नेरुत्तरतः शिखाम्बध्वाऽप उपस्पृश्य यज्ञोपवीत्याऽऽचम्या ग्रेणाग्निं गत्वाऽग्नेर्द्दक्षिणत आस्तीर्णदर्भणां पुरतः प्रत्यङ्मुखस्तिष्ठन्वा मच्चस्ताङ्गुष्ठानामिकाभ्या
1
For Private And Personal