________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोभिलीयगृहकर्मप्रकाशिका । भोजनम् । विहितपदार्थभोजनस्येश्वरत्वाक्षोधुकत्व-सर्वकाम्यत्व-प्रजापश्वादिप्राप्तिः फलम् ॥ भोजनत्यागे उक्ताविपरीतफलं' इति मानतन्तव्येनर्षिणतम् ॥ दम्पत्यारधश्शायनं जागरणच । तदर्थं पुण्यकथाश्रवणं कथनं वा । स्मरण-कीर्तनकेलि-प्रेक्षण-गुह्यभाषण-सङ्कल्पाध्यवसाय-शुल्लोत्सर्जनात्मकाष्टविधमैथुननिषेधः । एतदेव ब्रह्मचर्य गृहस्थस्य । “गृहे पत्न्या स्थालीपाकेऽनुष्ठीयमाने ग्रामान्तरस्थस्य यजमानस्य नोपवास” इति केषाश्चिन्मतम । एते नियमा आहिताग्निनाऽप्यनुष्ठेयाः । अन्येऽपि नियमविशेषा अध्वर्यु शाखाप्रतिपादिता ग्राह्याः । तदुक्तं गोभिलेन । “यञ्चाम्नायो विदध्यात्” इति ॥ अस्य भाष्यम् ॥ अध्वर्यु-प्रत्ययत्वादग्निहोत्रस्य तदाम्नायं विहितं स्यादिति समुच्चयार्थमिदमुक्तमिति । अक्षरार्थस्तु यं च पदार्थजातमाम्नायोऽध्वर्यु शाखा विदध्यादिधानं कुर्यात्तमपि गृह्णीयादिति विशेषः । चकारः स्वशाखोदितकर्मसमुच्चयार्थः ॥ अथ प्रयोगः ॥ तत्रान्वाधानदिने प्रातः कृतनित्यक्रियः प्रातरौपासनं विधाय, कुशेषासीनो दक्षिणहस्तानामिकया ब्रह्मअन्यियुक्तं कुशपविच कुशांश्च धारयमाण: पत्न्या सह प्राणानायम्य सङ्कल्पं करोति । देशकाला सङ्कीर्त्य ममोपात्तसमस्तदुरितक्षयहारा परमेश्वरप्रीत्यर्थं पौर्णमासस्थालीपाकं करिष्ये इति पौर्णमास्याम । दर्शस्थालीपाकं करिष्ये इत्यमावास्यायशम् । तेन परमेश्वरं प्रीणयानि । पत्न्यर्थमप्येवमुक्का
भानुत्तरतो निरस्याप उपस्पृशति । ततो ब्रह्मवरणम अथाग्नेः स्थण्डिलं गोमयेन समन्तमपलिम्पति ॥ प्रादेशदय
For Private And Personal