________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोभिसीयगृहकर्मप्रकाशिका । होमेषु मन्त्रदैवतवर्जिता । पुरस्ताच्चोपरिष्टाच हीन्धनार्या समिद्भवेत" ॥ तत्रैव कर्मविशेषे इध्यनिषेधः ॥ “अङ्ग होमसमितन्त्रसाष्यन्त्याख्येषु कर्मप्त । येषां चैतदपर्युक्तं तेषु तत्सहशेषु च ॥ अक्षभङ्गादिविपदि जलहोमादिकर्मणि । सेामाहुतिषु सर्वासु नैतेषिमो विधीयते” ॥ अथ पवित्रलक्षणं तचैव॥ "अनन्तर्भिणं सायं काशं हिदलमेव च । प्रादेशमाचं विज्ञेयं पवित्रं यत्र कुत्रचित् ॥ एतदेव हि पिचल्या लक्षणं समुदाहृतम् । आज्यस्योत्पवनाथं यत्तदप्येतावदेव तु” ॥ अथ क्षिप्रहामलक्षणं । “एकसाध्येष्वाईष्प न स्यात्परिसमूहनम् । नोदगासादनं चैव क्षिप्रहामा हि ते मताः ॥ न कुर्यात्क्षिप्रहोमेषु हिजः परिसमूहनम् । वैरूपादं च न जपेत्यपदच्च विवर्जयेत्” ॥ अथ प्रायश्चित्तप्रमाणम ॥ “यच व्याहृतिभिहामः प्रायश्चित्तात्मको भवेत । चतस्त्रतत्र विज्ञेयास्स्त्रीपाणिग्रहणे यथा ॥ अपिवाज्ञातमित्येषा प्राजापत्या ऽपि वाऽऽहुतिः । हातव्या निर्विकल्पोऽयं प्रायश्चित्तविधिस्स्मतः” ॥ अथ यागपर्वदिने ऽमावात्यायां पूर्णमास्याञ्च दम्पत्योर्नियमा: कथ्यन्ते ॥ यजमानस्य प्रवासनिषेधः । स्वयं होमा) प्रवासादवश्यं गृहागमनं कर्तव्यम् । स्वद्रव्यविक्रयनिषेधः । बहुलाकिकभाषणनिषेधश्च । सत्यस्यैव वदनम् । अपराले पुनः स्नानादिकम् । दर्श पिण्डपितृयज्ञो वक्ष्यते । तदैव दम्पत्योभीजनम् । रात्रिभोजननिषेधः ।मधु-मांस-लवण क्षार-माष-कोद्रवादिनिषिवद्रव्यभोजननिषेधश्च । एत-दधि-क्षीर-फलादनादिभिस्तृप्तिपर्यन्तं
For Private And Personal