________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१४४
मोभिलीयरह्मकर्मप्रकाशिका । ब्राह्मणानां सन्निधानाभावे पृषातकं स्वयं पश्येत् । ब्राह्मणानितिबधुवचनादवेक्षकास्त्रयः । बहुवचनस्य चित्वे पर्यवसानस्य 'कपिञ्जलाधिकरणे सिद्धान्तितत्वात्। ततो ब्राह्मणान्भोजयित्वा स्वयम्भवा जातुषान्सर्वोषधिमिश्रान्मणीनाबधीरन् । स्वन्त्ययनाय सायं गाः पृषातकं प्राशयित्वा सहवत्सा विवासयेत् । स्वस्ति हासां भवति । आपनीरनितिबहुवचनदर्शनाद्यजमानपुत्रादीनां बाहौ मणिबन्धनम् । परिभाषासूत्रेण कौन्ते विहितब्राह्मणभोजनमत्र दिवैव कर्त्तव्यम् । “ब्राह्मणान्भोजयित्वा स्वयं भुत्वा जातुषान्मणीनिति” पुनस्सूत्रकृतोक्तत्वात् । पर्वणि रात्रिभोजननिषेधस्मरणाच । केचित्तु “कौन्ते कर्तव्यब्राह्मणभोजनादन्यदेवेदं ब्राह्मणत्रयभोजनमिति"वदन्ति । अन्येतु, “ब्राह्मणान्भोजयित्वेत्यच पृषातकं भोजयेदिति"व्याचक्षते । एतदपि शास्त्रार्थापरिज्ञानविलसितम् । मथाहि पूर्वमीमांसायां शाबरभाष्ये जिज्ञासाऽधिकरणे । "लोके येथेष प्रसिद्धानि पदानि तानि सति सम्भवे तदर्थान्येष सूधित्यवगन्तव्यम् । नाध्याचारादिभिरेषां परिकल्पनीयोऽर्थः परिभाषितव्या वे"त्युक्तत्वात् । अवाश्रुतपृषातकपदाध्याहर. प्रसङ्गः । किञ्च पृषातकस्य गोभक्षणं विदधसूचं व्याकुप्येत । म हि पृषासकभक्षणेन ब्राह्मणानां तृप्तिस्यात् । तस्मात्प्रयमत उतार्थ एव शिष्टैरादर्तव्य इत्यलम् । 'लाक्षामयमणिबन्धनमपि नित्यं न तु काम्यम्। स्वस्ययनार्थमिति तु नाधिकारविधिः, वाक्यभेदप्रसङ्गात् । किन्त मणिबन्धनस्तावकम ।
For Private And Personal