________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
-
-
गोमिलीयाकर्मप्रकाशिका । | य उदीच्या दिशि सर्पराज एष ते बलि: । अच "केचित्तनीच्यामदीच्यां चममदा: प्रोक्षणप्रतापनयोः प्रतिषेधं वदन्ति" तेषामेवं प्रतीच्येवमुदीचीतिसूचविरोधस्स्पष्ट एव । व्यावर्तन| निषेधस्तु तच स्थितत्वात्स्पष्टार्थः । ततोऽवशिष्टसक्तून गणामिप्रणीताग्नौ तूष्णीं प्रक्षिप्य पूर्वोक्तदक्षिणपश्चिममध्य सञ्चरमार्गण गृह्याग्निसमीपमागच्छति । सतस्तस्याग्नेः पश्चात भूमी न्यञ्चौ पाणी प्रतिष्ठाप्य नमः पृथिव्या इति मन्त्र जपेत् । अस्य मन्त्रस्य प्रजापतिषिरनुष्टपछन्दोमिहवता भूमिजपे विनियोगः । नमः पृथिव्यै दस्ष्ट्राय विश्वभूमा ते अन्ते रिषाम सश्हतं मा विवधोविचत माऽभिसंवधीः । ऋत्विकर्तकपक्षेऽप्यस्यैव मन्त्रपठनं, नास्यत्रोहः । सन्ध्या निवर्त्य गुह्याग्नौ सायमोपासनं विधाय पायसस्थालीपाकं कऱ्यांत । “अब केचि ईश्वदेवबलिहरणानन्तरं स्थालीपार्क वदन्ति” तन्न साधु, प्रमाणाभावात, प्रदोषे स्थालीपाकविधिविरोधाच्च, सन्याहोमयोनियतकालत्वाकालात्यये प्रायश्चित्त. श्रवणाच तयोः पूर्वमनुष्ठानं न्याय्यम् । बलिहरणन्तु न मया । सत आचान्तोदकः प्राणानायम्य अवणाकर्म करिष्ये इति सङ्कल्याग्निमुपसमाधाय ब्रह्मोपवेशनादिब्रह्मणे पूर्णपाचदनिणादानान्तं पार्वणस्थालीपाकवत्कुर्यात् । तत्र विशेषः । पाचासादनकाले पयोऽप्यासादनं समूलदर्भतम्बस्य च । निर्वापकाले श्रवणाय त्वा जुष्टं निर्वपामि। विष्णवे त्वा जुष्टं निर्वपामि। अग्नये त्वा जुष्टं निर्वामि । प्रजापतये त्वा जुष्टं निर्वामि ।
For Private And Personal