SearchBrowseAboutContactDonate
Page Preview
Page 147
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयबहाकर्मप्रकाशिका। त्वा ततश्चमसे स्थितान सतन शर्प निक्षिप्य चमसेनोदकं गृह्णाति । ततः समरेण प्रविश्यानिप्रणीतस्याग्नेरुत्तरता मार्गण पूर्वस्यां दिशि गत्वा प्रामुख उपविश्य पूर्वदिशि कृते मण्डले चमसजसं हस्तेन निनीय दा सकृत्सक्न गृहीत्वा मन्त्रेण बलि निवपति। वक्ष्यमाणानां चतुणी मन्त्राणां प्रजापतिषिर्निगदः सप्पी देवता सर्पबलिकर्मणि विनियोगः । यः प्रच्यां दिशि सर्पराज एष ते बलिः । ततश्चमसेऽवशिष्ट. मुदकं इस्तेन गृहीत्वा बलिसमीपे निक्षिपति यथा बलिस्वस्थानान्न प्रच्यतो भवेत् । ततोऽप्रदक्षिणेनाभ्याऋत्य चमसं दौञ्चाभ्युक्ष्य, युगपदेव प्रताप्य, पूर्ववच्चमसेनोदकं गृहीत्वा, दया सक्तन गृहीत्वा, ऽग्नेरुत्तरतो गत्वा, दक्षिणस्यां दिशि दक्षिणाभिमुख उपविश्य, पूर्वकृतदक्षिणमण्डले चमसादुदक पाणिना निनीय, दऱ्या सक्तून निवपति, यो दक्षिणस्यां दिशि सर्पराज एष ते बलिरित्येतावता मन्त्रेण । पूर्ववच्चममादकं इस्तेन बलिसमीपे निक्षिपेत् । ततः पूर्ववदभ्यावृत्त्य, चमसदावभ्यक्ष्याग्नौप्रताप्य, पश्चिममण्डलस्य पुरतः प्रत्यमख उपविश्य, तचैव पश्चिमस्थण्डिले पो निनीय, मन्त्रणा बलिं निवपति, यः प्रतीच्यां दिशि सर्पराज एष ते बलिरिति मन्त्रः । पुनः पूर्ववदपो निक्षिप्य चमसद-वभ्यक्ष्य प्रतापयेत। नाचाभ्यावर्त्तनं तचैव स्थितत्वात् । तत उत्तरस्थण्डिलस्य दक्षिणत उत्तराभिमुखो भूत्वोत्तरस्थण्डिलेऽपो निनीय, मन्त्रण सक्तन् निक्षिप्य, पुनरपोऽवनयति पूर्ववत् । तत्र बनिमन्त्रः । For Private And Personal
SR No.020356
Book TitleGobhiliya Gruhya Karm Prakashika
Original Sutra AuthorN/A
AuthorSubramhanya
PublisherSubramhanya
Publication Year1886
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy