________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१३८
गोभिलीयकर्मप्रकाशिका |
अथ श्रवण कर्मप्रयोग उच्यते । तच्छावण्यां पौर्णमास्यां कर्त्तव्यम् । तस्य यावज्जीवं प्रतिसंवत्सर मनुष्ठेयत्वात्प्रथमप्रयोगे नान्दीश्राद्धं कुर्यात् । प्रातरेव श्रवणा कर्म करिष्ये इति सङ्कल्याग्न्यायतनस्य पुरस्तात्संस्कृते स्थण्डिल औपासनारेकदेशमाहृत्य प्रणयति । ततोऽतिप्रणीतस्याग्नेश्चतसृषु दिचु किञ्चिदधिके प्रक्रमान्तरिते देशे गोमयेनोपलिप्य प्रादेशमाचं चतुरस्त्रं स्थण्डिलं कुर्यात् । चिपदः प्रक्रमो ग्राह्य इति । " तदुक्तं 'कर्मप्रदोपे' । संसक्तपदविन्यास स्त्रिपदः प्रक्रमः स्मृतः । स्मात कर्मणि सर्वच श्रौते त्वध्वर्युपादित" इति वचनात् । ततोऽग्निमुपसमाधायातिप्रणीताग्नेरुत्तरत उद्गग्रेषु दर्भेषु यवान् भर्जनकपालमुलूखलं मुसलं शूर्प्पमनुगुप्ता अपश्च सादयित्वाऽनुगुप्ताभिरद्भिः प्रोक्ष्य, चकाघटितं मृन्मयं कपालमग्नौ संस्थाप्य, तस्मिन् कपाले सहहृचीतयत्रमुष्टिं प्रक्षिप्य भर्ज्जति यथा यवा दग्धा न भवेयुस्तथा । ततो भ्रष्टान् यवानुदगुद्दास्य, प्रणीताग्नेः पश्चादुलूखलं दृढं संस्थाप्य, तस्मिन् भ्रष्टान्यवान् प्रतिप्य, मुसलमादाय पार्वणस्थालीपाकवदवचननं कुर्य्यात् । यथा यवाः सक्तवो भवन्ति तथेोद्देचं कृत्वाऽवचननं कुर्यात् । एवं सम्यक् सक्तून् कृत्वा, तान् चमसे संस्थाप्य, शपणाच्छाद्य गृहे निदधाति । एतावत्कमन्दि कर्त्तव्यम् । इतः परं वक्ष्यमाण कर्मानुष्ठानाय सञ्चरप्रदेशेोऽतिप्रणीताग्नेर्दक्षिणपश्चिमयोर्मध्यम प्रदेशः । ततो ऽस्तं गते सूर्यऽतिप्रणीतास्याग्नेस्समीपं गच्छति । चमसं दर्व्वश्च गृही
Acharya Shri Kailashsagarsuri Gyanmandir
For Private And Personal