________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोभिलीयकर्मप्रकाशिका ।
१३०
भूमिजपपरिसम्म्रचनविरूपात प्रपदजपान् कुर्य्यात् । श्रज्यभागान्ते चरुहेोमः । अग्नये स्वाहा । अग्नय इदं न मम । पूष्णे स्वाहा । पूष्ण पूदं न मम । इन्द्राय स्वाहा | इन्द्रायेदं न मम । ईश्वराय स्वाहा । ईश्वरायेदं न मम । दृषभस्य कर्णे शृङ्गे वाऽऽभरणम्बड्या, घासादिकञ्च दत्वा पूजनं कुर्य्यात् । सायमागतानां गवां गन्धोदकैरभ्युक्षणम् । ब्रह्मणे पूर्णपाचदानम्, वामदेव्यगानं, ब्राह्मणभोजनं च कुर्यात् । इति गोयज्ञप्रयोगः ॥
।
अथाश्वयज्ञप्रयोग उच्यते । तस्य प्रयोगो गोयज्ञवयाख्यातस्तथाऽपि विशेषेो ऽभिधीयते । गोयज्ञोऽश्वयज्ञश्च विद्यमानानां गवामश्वानां च पुष्ट्यर्थः । “पुष्टि कम" इति सूचोरविद्यमानासु गोवसत्वश्वेषु नायं गोयज्ञोऽश्वयज्ञश्च । तथा च विद्यमानानामश्वानां पुष्ट्यर्थमश्वयज्ञमहं करिष्ये इति सङ्कल्य पूर्ववत्पायसचरुं कुर्यात् । निर्वापकाले विशेषः । गोयज्ञवदग्निषेन्द्रेश्वरेभ्यो हविर्निरूप्य यमवरुणयेोर्निर्वापः । यमाय त्वा जुष्टं निर्वपामि । वरुणाय त्वा जुष्टं निर्वपामीत्याज्यभागान्ते गोयज्ञवदग्न्यादिभ्यश्चतसृभ्यो देवताभ्यश्व हुल्या, यमाय स्वाहा । यमायेदं न मम । वरुणाय स्वाहा । वरुणायेदं न ममेति जुहुयात् । अनयोः काम्यत्वात्काम्येषु वक्ष्यमाणचिरात्रोपोषणमशक्तौ चिराचमेकभक्तं वा । अन्ये मु | "मार्गपालीदिने गोयज्ञो, नीराजनदिनेऽश्वयज्ञः" इति कर्मप्रदीपवचनाचेत्याहुः । इत्यश्वयज्ञप्रयोगः ॥
For Private And Personal