________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोभिलीयाकर्मप्रकाशिका । दमपरिमितः पविः । जिहे मा विह्वलो वाचं चारुमाघेर पादय । अस्मिन्काले स्नातकायाचार्येण मधुपक्का देयो वक्ष्यमाणविधिना । ततो सृषभयुक्तं रथं गत्वा हे चक्रे ईषे च । मन्वेणाभिम्शेत् । अस्य मन्त्रस्य प्रजापतिषिस्त्रिष्टप्छन्दो वनस्पतिर्देवता पादचयेणाभिमशने चतुर्थपादेनास्थाने विनियोगः । वनस्पते पीड्वंगो हि भूया अस्मत्सखा प्रतरणस्मवीरः । गाभिस्मन्नद्दा असि वीडयव । ततस्तूष्णीं रथमारुय रथे मन्त्रेण तिष्ठति । मन्त्रः । आस्थाता ते जयतु जेत्वानि । सतस्तै नैव रथेन प्रागुदग्या गत्वा प्रादक्षिण्येनावाचार्यसमीपमागच्छति । वामदेव्यगानम् । “अस्मिन्काले स्नातकायाचा. येणमधुपक्का देयो नतु प्रागिति” कोहलशाखिनः । यथाशक्ति ब्राह्मणभोजनं कुर्यात् ॥ इति स्नानप्रयोगः ॥
अथ स्नातकव्रतान्युपदिशति । स्नानादूई प्राचीनशि. ष्टानां ये तावदाचारास्तान्परिशीलयेत् । तृवाचारान्प्रचक्षत आचार्य्याः । प्रजातनवयौवनाया मैथुनं वर्जयेत्। काकवन्ध्यायाः कन्याया विवाहं वर्जयेत् । रजस्खलाया मैथुमं नेच्छेत् । समानप्रवरां नोद्द हेत् । गवाक्षादिहारणाहृतमन्नं नाश्नीयात् । पक्कावस्यैवायं निषेधः । हिवारं पक्वस्यान्नस्य भोजनं न कुर्यात् । पर्य विना न भुञ्जीतान्यत्र शाकमांसयवपिष्टविकारेभ्यः । दृष्टिसमले गमनं न कार्यम् । स्वयं इस्तेनोपानी न हरेत् । कूपस्यावेक्षणं न कुर्यात् । स्वयं फलानि वृक्षमारुह्य न गृहीयात् । गन्धरहितपुष्पमाला न धारयेत् । सुवर्णमालाधारणे
-
For Private And Personal
For Private And Personal