________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१३१
गोभिलीयरह्मकर्मप्रकाशिका । त्याग आचारात । ततो ब्राह्मणान्भोजयित्वा स्वयं भुत्ला केशश्मश्ररोमनखानि वापयेच्छिखावर्जम । अत्र "ब्राह्मणाभोजयित्वेत्यनेन नान्दीमुखश्राद्धं विधीयत” इति भहनारायणादयः । "कर्मान्तविहितं ब्राह्मणभोजनमत्र विधीयत" इति भवदेवभहप्रभृतयः । “उभयस्मादन्यदेवेदं ब्राह्मणभोजन मि”त्यपरे । कतम ? एषां पक्षो ज्यायानित्यत्र तृतीय इति ब्रमः । श्राद्धकाङ्गब्राह्मणभोजनयोविहितत्वादादावन्ते च तयोः प्राप्तेः कपिञ्जलाधिकरणन्यायेन चयो भोजयितव्याः । ततः स्नात्वाऽऽत्मानमलङ्कृत्याहतं वस्त्रदयं परिधाय पुष्यमाला शिरसि बधीयाच्छीरसीतिमन्त्रेण । अस्य मन्त्रस्य प्रजापति ऋषियंजुश्रीवता सम्बन्धने विनियोगः । श्रीरसि मयि रमस्व । नेयौ स्था इतिमन्त्रेण पादयोरुपानहावाबनीयात् । अस्य मन्त्रस्य प्रजापतिर्यजुरुपानही देवते आवन्धने विनियोगः । नेच्यौ स्थो नयतं माम् । गन्धर्वाऽसीतिमन्त्रेण वैणवं दण्ड परिगृह्णाति । अस्य प्रजापतियजुर्दण्डो देवता दण्डग्रहणे विनियोगः । गन्धवाऽस्यपाव उप मामव । ततस्तपरिषत्कमाचार्यमभ्येत्याचार्य परिषदञ्च मन्त्रेण पश्यति । अस्य प्रजापतिर्यजुराचा- देवता प्रेक्षणे विनियोगः । यक्षमिव चक्षुषः प्रियो वो भूयासम् । तत आचार्यसमीप उपविश्य मुखनासिकाक्षिकर्णछिद्राणि स्पृशन्नोष्ठापिधानेतिमन्त्रं जपति । अस्य मन्त्रस्य प्रजापतिषिरनुष्टपछन्दो नकुली देवता मुखादिस्पर्शने विनियोगः । ओष्ठापिधाना नकली |
For Private And Personal