________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१२८
गोभिलीययाकर्मप्रकाशिका । प्रायश्चित्तहोमे विनियोगः । यज्ञं पाहि विभावसे स्वाहा । विश्वेभ्यो देवेभ्य इदं न मम । प्रजपतिषियजुः शतक्रतुहवता प्रायश्चित्तहोमे विनियोगः । सर्व पाहि शतक्रतो स्वाहा । शतक्रतव इदं न मम । प्रजापतिषिर्गायत्रीछन्दोऽग्निर्देवता प्रायश्चित्तहोमे विनियोगः । पुनरुज्जी निवर्तस्व पुनरग्न 5षायुषा । पुनर्नः पाहि विश्वतः स्वाहा । अग्नय इदं न मम। प्रजापतिषिगायत्रीछन्दोऽग्निर्देवता प्रायश्चित्तहोमे विनियोगः । सह रव्या निवर्तयाग्ने पिन्वस्त्र धारया। विश्वप्निया विश्वतस्परि स्वाहा । अग्नय इदं न मम । पुनर्व्यस्तसमस्तव्याहृतिचतुष्टयं हुत्वा, गोदानादिव्रतलोपनायश्चित्तार्थं प्रत्येकमष्टोत्तरशतमष्टाविंशतिमष्टौ वा गायच्या आज्याहुतीश्च हुत्वा, एकैकं कृच्छं चरित्वा, व्याहृतिहामादितन्त्रशेषं समापयेत् । इति ब्रह्मचारिव्रतलोपप्रायश्चित्तप्रयोगः ॥
अथ स्नानप्रयोगः ॥ अथ ब्रह्मचर्यव्रतान्ते ऐन्द्रचर कृत्वाऽऽचार्यगृहस्य पुरस्तादुत्तरतस्सर्वत आच्छादिते देशे प्रागग्रेषु दर्भेषदङ्मुख आचार्य उपविशति, उदगग्रेषु दर्भेषु प्रामुखो ब्रह्मचार्यपविशति । ततो नान्दीमुख श्राद्धं कुर्यात् । व्रीहि-शालि-मुद्ग-सर्षप-गोधम-तिल-यवानुदकपूरिते भाण्डे निक्षिप्योष्णं कृत्वा तेन गन्धद्रव्ययुक्तेन शोतजलमिश्रितेनोष्णोदकेनाचार्या ब्रह्मचारिणमभिषिञ्चेत् । अथवा, ब्रह्मचारी स्वयमेवात्मानमभिषिच्चेत् । अस्यैव पक्षस्य मुख्यत्वे प्रमाणम
For Private And Personal