________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोभिलीयगृह्मकर्मप्रकाशिका । तपस्विता दिवा सदा स्थितिापवेशनम् । भिक्षाटने परिक्रमणम् । सन्योपासनार्थमुपवेशनम् । राचावुपवेशनम्, न शयनम् । बहिर्गतस्य पर्जन्ये वर्षति मनुष्यैराच्छादितगृहादिप्रवेशनिषेधः । वर्षप्रारम्भेऽपि गृहादिप्रवेशननिषेधः । यदा पर्जन्यो वर्षति तदा सृष्ट्यपगमपर्यन्तमापश्शक्वर्य इतिमन्त्र पुनःपुनः पठेत् । यदायदा विद्युदिद्योतते तदातदैवं रूपाः खलु शक्का भवन्तीतिमन्त्रं पठेत् । यदायदा मेघे। गर्जति तदातदा मया महान् घोष इतिमन्त्रं पठेत् । न नदीमतिकामेत् । यद्यतिकामेल्लात्वाऽतिकामेत् । अतिक्रम्य वा स्वानं कुर्यात् । नौकारोइणं न कुर्यात् । नावारोहणाभावे केनापि निमित्तेन प्राणसंशये स्नात्वा नौकारोहणं कुर्यात् । पारं तीवी वा स्नायात् । उदकसम्बन्धिनियमानां विषवणस्नानादीनामवश्यानुष्ठानम् । महानाम्नीनामुदकाधीनत्वादुदकदातृत्वाहा । इत्थं व्रतमनुष्ठितवतः परमेश्वरात्सर्वकामावाप्तिरिच्छानुसारेण महती दृष्टिवी फलम् । केषाञ्चिद्धाणामननुष्ठानमनुजानाति परमकृपालराचार्यः । कृष्णवस्त्रधारणम् । दिवो स्थितिः । निशायामपवेशनम् । शयनाभावश्च । पथिप्रदानं । कृष्णपदार्थभक्षणम् । एतेषां शक्त्यभावे सति नानुष्ठानम् । वेधाविभक्तवतकालस्य प्रथमभागान्ते एकस्यास्स्तोचियायाश्श्रावणम् । मध्यमभागान्ते हितीयस्तावियायाश्श्रावणभ । तृतीयभागान्ते तृतीयस्याः स्तोत्रियायाश्श्रावणम् । सर्वव्रतान्ते वा सर्वासां महानाम्नीनां स्तोत्रियाणां युगपदेव श्रावणम । तासामध्ययनप्रयोग उच्यते।
For Private And Personal