________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोभिलीयरह्मकर्मप्रकाशिका । गोदानिकवातिकादित्यव्रतोपनिषदज्येष्ठ सामिकवतानां पृथक्पृथगेकैकसंवत्सरेऽनुष्ठानम् । देशकालशक्तिवयोवस्थाविशेषैर्यथासम्भवमनुष्ठानं वा कुर्यात् । आदित्यव्रतानुष्ठानात्परमध्ययनक्रमान्महानाम्निकव्रतानुष्ठानं कर्तव्यम् । तत औपनिषदज्येष्ठसामिकव्रतयोरनुष्ठानम । एवं स्थितेऽपि कालादीनां साम्यान्महानाम्निकभिन्नानां गोदानिकादिव्रतानां प्रयोगमुक्ता महानाम्निकप्रयोगः पृथगुपदिष्टकालक्रियालक्षण्यादधुनोच्यते । सूचकारस्य लाघवात्क्रमत्यागः । तस्य हाद. शसंवत्सरा, नव षट् त्रयो वा संवत्सरा, अनुष्ठानकाल: । एते चत्वारः पक्षा: पुरुषशक्तिवयोवस्थादिविशेषापेक्षयोक्ताः। “संवत्सरमाचं वा महानाम्निकव्रतमि”त्येक आचार्यो मन्यन्ते । तस्य पित्रादिभिस्त्रिभिर्यथोक्तव्रतचापूर्वकं महानाम्नीनामध्ययनं कृतं स्यात्तदा पुत्रस्य सांवत्सरिकमहानाम्निकव्रतेऽधिकारः । अन्येषां तु हादशवार्षिकादौ । अयमा “रोकिब्राह्मणे"ऽपि स्पष्टः । अथ महानाम्निकव्रताङ्गं नान्दीमुखश्राद्धं करिष्ये। तदर्थमुपनयनम् । अग्ने व्रतपते महानाम्निकं हादशवार्षिकं वा, नववार्षिकं षड्वार्षिकं वा, वार्षिकं वा, सांवत्सरिकं चरिष्यामीत्यूयुक्तः पञ्चभिर्मन्त्रैः पञ्चान्याहुती: कुर्यादन्यत्पूर्ववत् । महानाम्निकवतिनः पूर्वाक्तव्रतनियमातिरि
नियमा उच्यन्ते । त्रिकाल स्नानम् । सायम्प्रातः समिदाधानात्पूर्व भोजननिषेधः । कृष्णवस्त्रधारणम् । कृष्णवत्तुभक्षणम्। आचा-धीनता । स्मत्यन्तरोपदिष्टस्य पथिदानस्य निषेधः ।।
For Private And Personal