SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोभिलीयगृहकर्मप्रकाशिका । वर्चसा प्रजया पशुभिब्रह्मवर्चसेन धनेनान्नाोन समेधिषीय स्वाहा । अग्नय इदं न मम । पूर्ववत्तूष्णीं समिधमाधायानुपर्युक्षणमुदकाञ्जलिवयसेचनमुपस्थानादि चमसनिनयनं वामदेव्यगानञ्च कुर्यात् । एवमत जलमहरहस्सायंप्रामस्समिदाधानमासमावर्तनात्कर्त्तव्यम् । विराचं क्षारलवणवर्जितं भुञ्जीत । इति समिदाधानप्रयोगः ॥ अथ साविच चरुप्रयोगः । स च सावित्रव्रतान्ते कार्य्यः । तदङ्गमाभ्यदयिकश्राद्धं कृत्वा विधिवदग्निं प्रतिष्ठाप्य प्रकृतिस्थालीपाकवदाज्यभागान्तं कुयात्। चनिर्वापकाले सवित्रे त्वा जष्टं निर्वपामीति विशेषः । सवित्रे स्वाहा। सवित्र इदं न मम । इति चर्स जुहोति । ततोऽग्ने व्रतपने व्रतमचारिषमित्यादिभिः पञ्चाज्याहुतयः । ऋष्यादय उपनयने उक्ताः । अग्ने व्रतपते व्रतं सावित्रमष्टवर्षमष्टमासमष्टदिनं वा अचारिषं तत्ते प्रब्रवीमि तदशकं तेनारासमिदमहमन्तात् सत्यमुपागां स्वाहा ॥ अग्रिममन्त्रे ष्वप्येवमूहः । वायो व्रतपते व्रतमचारिषं तत्ते प्रब्रवीमि। सूर्य व्रतपते व्रतमचारिषम्। चन्द्र व्रतपते व्रतमचारिषम् । व्रतानां व्रतपते व्रतमचारिषमिति । चतुर्ष मन्त्रेषवशिष्टः प्रथममन्त्रवछोडव्यः । तन्त्र शेष समापयेत् । ब्रह्मणे गौईक्षिणा। आचार्यायेति केचित । “उपनयनकर्मणश्चतुर्थऽहनि सावित्रचरुं कर्यादिति”भवदेवभहः । “बिराचव्रतान्ते सावित्रचरुः कर्तव्य” इति भहनारायणोऽपीममर्थमनुजानाति । “उपनयनदिने माणवकाय भैक्षदानानन्तरं सावित्रचरुरिति” रघुनन्दनः । For Private And Personal
SR No.020356
Book TitleGobhiliya Gruhya Karm Prakashika
Original Sutra AuthorN/A
AuthorSubramhanya
PublisherSubramhanya
Publication Year1886
Total Pages362
LanguageSanskrit
ClassificationBook_Devnagari
File Size15 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy