________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोभिलीयर कर्मप्रकाशिका । ताश्च भिक्षेत । तद्यथा । भवति भिक्षा देनीति ब्राह्मणस्य । भिक्षा भवति देहीति क्षत्रियस्या भिक्षां देहि भवतीति वैश्यस्य । अग्नेः पश्चात्यामखस्तिष्ठन्नपविश्य वा भैक्ष्यमाचरेत् ॥ अथ ब्रह्मचारीदं भक्ष्यं भी भगवन् गृहाणेत्याचार्याय निवेद्याचार्यदत्तं स्वयं प्रतिगृह्णीयात् । तत आचार्यो व्याहृतिचतुष्टय| होमादितन्त्र समापयेत् । ततोऽहशेषं ब्रह्मचारी वाग्यतस्तिष्ठेत् । अथोपनीतस्य "माध्यान्हिकसन्थ्योपक्रममाह जैमिनिः'। यावब्रह्मोपदेशस्तु तावत्सन्थ्यादिकं न च । ततो मध्यान्हसन्ध्यादि सर्व कर्म समाचरेत्” । श्रादिसर्वशब्दाभ्यां ब्रह्मयज्ञादिकमुच्यते । तत्र विशेषमाह स एव । “अनुपाकृतवेदस्य ब्रह्मयज्ञः कथं ? भवेत् । वेदस्थाने तु गायत्री गद्यतेऽन्यत्समं भवेत्” । येषां सायं सन्थ्योपक्रमस्तंषां परेऽन्हि ब्रह्मयज्ञारम्भः ॥ इत्युपनयनप्रयोगः ॥ ___अथ सायंसन्थ्योपासनं कृत्वाऽग्नये समिधमाहार्षमिति समिदाधानं कुर्यात् । तस्य प्रयोगः । आचम्य प्राणानायम्य सायं समिधमाधास्ये इति सङ्कल्योपलिप्ते स्थण्डिले उल्लिख्याभ्युक्ष्य, प्रतिष्ठाप्याग्निं, तूष्णीं समिधमाधाय, परिसमूह्य, विरूदकाञ्जलिं दत्वा, देव सवितरिति पर्युक्ष्य, तूष्णीं प्रादेशमिता समिधमाधायाग्नये समिधमाशार्षमिति समिधमादध्यात् । अस्य मन्त्रस्य प्रजापतिषिर्यजुरग्निर्देवता समिदाधाने विनियोगः । अग्नये समिधमाहा वृहते जातवेदसे यथा त्वमग्ने समिधा समिध्यस्येवमहमायुषा मेधया
For Private And Personal