________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोभिलीयरह्मकर्मप्रकाशिका । सुश्रवा ब्राह्मणेषु भूयासम् ॥ १ ॥ ततः पूर्वासादिताजिनधारणाम । "तस्य मन्त्र काण्डे मन्त्रपाठाभावतैत्तिरीयशाखागतमन्त्रो ग्राह्य” इति भहनारायणोपाध्यायप्रभृतयः ।"तष्णीमजिनधारणं स्वशाखायां मन्त्रपाठाभावादिति” केचिदिदांसः । अजिनधारणमन्त्रस्य प्रजापतिषिस्त्रिष्टुप्छन्दोऽजिनं देवताऽजिनधारणे विनियोगः । मित्रस्य चक्षधरुणं बलीयस्तेजो यशस्वी स्थविरसमिदं । अनाहनस्यं वसनं जरिष्ण परीदं वाज्यजिनं दधेऽहम् । इत्येतं मन्त्रं माणवकं वाचयन धारयति ॥ अथ ब्रह्मचारिणं हादश प्रैषानुक्त्वा तदर्थञ्च बोधयेत् । तद्यथा ।
आचार्याधीनो भव । अन्यत्राधमाचरणात् । माणवको बाढमिति वदेत ॥ १ ॥ क्रोधान्ते वर्जय । बाढम् ॥ २ ॥ मैथुनं वर्जय । बाढम् ॥ ३ ॥ उपरिशय्यां वर्जय । बाढम ॥ ४ ॥ कोशीलवगन्धाञ्जनानि वज्जय । बाढम् ॥ ५ ॥ स्नानं वर्जय । बाढम् ॥ ६ ॥ अवलेखनदन्तप्रक्षालनपादप्रक्षालनानि वर्जय । बाढम् ॥ ७ ॥ क्षुरकृत्यं वर्जय । बाढम् ॥ ८ ॥ मधुमासे वर्जय । बाढम् ॥ ८ ॥ गोयुक्तवाह. नारोहणं वर्जय । बाढम् ॥ १० ॥ अन्तीम उपानहोधारणं वजय । बाढम ॥ ११ ॥ स्वमिन्द्रियमोचनं न कर्त्तव्यम् । बाढम् ॥ १२ ॥ अथ साधारणधर्मापदेशः । मेखलाधारणभैश्यचर्य्यदण्डधारणसमिदाधानोदकोपस्पर्शनप्रातरभिवादाः कर्तव्याः । बाढम् । ततो माणवकस्तूष्णीमादित्यमुपस्थायाग्निं प्रदक्षिणीकृत्य प्रथमं मातरं ततो भगिन्यादीस्सन्निहि
For Private And Personal