________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
गोभिलीयकर्मप्रकाशिका |
I
भवति तानि वक्ष्यामः । यच दिङ नोपदिश्यते तानि कर्मणिप्राङ्मुख उदङ्मुख ईशानमुखा वा कुर्य्यात् । तिष्ठन्नासीन: प्रहोवेति नियमों नोपदिश्यते, तदासीनः कुर्यात् । यत्र कर्मकतुरङ्गोपदेशो न तच दक्षिणमङ्गं विजानीयात् । बह्वशिखः पविचपाणिः कृतप्राणायामो देशकाला सङ्कीर्त्य कर्म कुर्यात् । एकवासा न कुर्यात् । शूद्र - चाण्डाल- पतित-पतिच्युत-वेदस्मृतिपथाननुयायिब्राह्मणैर्मन्त्रश्रवणे कर्म न कुर्यात् । पितृमन्त्रपउने, आत्मालम्भे, ऽधमदर्शने, धोवायुविसर्ग, प्रहासे, ऽन्त भाषणे, मार्जीरमूषक्रस्पर्शे, आकष्ट, कोषसम्भये, रौद्रराक्षसासुराभिचारमन्त्रपठने, छेदने, भेदने, निरसने, ऽप उपस्पृशेत् । मन्त्रदेवतानुक्तौ प्रजापतिर्देवता । होमद्रव्यानुक्तावाज्यम् । व्यजनादिनाऽग्निधमनं न कुर्यात् । किन्तु धमन्यादिना । विशिष्य दक्षिणानुक्तौ पूर्णपात्रं दक्षिणा । अन्तजानुः सर्वं कर्म कुर्यात् । सर्वकर्मवन्ते वामदेव्यं गायेत् । सर्वेषु कर्मसु दक्षिणादानमाभ्युदयिकश्राद्धं कर्मसमाप्तौ यथाशक्ति ब्राह्मणभोजनञ्च कर्त्तव्यम् । नच सूचकारेण दक्षिणादानमाभ्युदयिकश्राव नोक्तमिति वाच्यम्, “सर्वाण्येवान्वाहार्यवति" इति सूचेणोक्तत्वात् । सूचेऽन्वा दार्यशब्दो दक्षिणावाचक श्रभ्युदविकश्राववाचकच । तथा चायमर्थः । सर्वाणि कमीरयन्वाचायवन्ति दक्षिणाभ्युदयिकश्रावयुक्तानीति । "तदुक्तं 'गृह्यासङ्ग्रहे' । यच्छ्राद्धं कर्मणामादौ या चान्ते दक्षिणा भवेत् । आमावास्यं द्वितीयं यदन्वाचार्य्यं तदुच्यते " ॥ न चै केमो भय विधानमयुक्तं
I
For Private And Personal