________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
॥ श्रीगणेशाय नमः ॥
NO
गोभिलीयगृह्यकर्मप्रकाशिका ।
यता जातमिदं दृश्यं यस्मिन्नेव प्रतिष्ठितम् । यस्मिन्विलीयते सत्य तं वन्दे परमेश्वरम् ॥ १॥ श्रीमान्सर्वजिदाख्यभूपतनुजश्रीकृष्णदत्तात्मजो ध्यग्निष्टोममखादिदीक्षणयुतश्श्रीवत्सगोत्रोद्भवः । सामाम्नायगकाथुमीस्थमनुभिः कर्माणि कुर्वन्मुदा ज्ञात्वा गोभिलगृह्यसूत्रनिचयैर्विश्वेनवंशोद्भवः ॥ २ ॥ सरय्वा उत्तरे देशे भिनगानगरोत्तमम् । राजते तत्र भूपेन्द्रो वेदमार्गेषु तत्परः ॥ ३ ॥ तेनाक्षमा गोभिलीयगृह्यकर्मप्रकाशिकाम् । कुरुते बालबोधाय सुधीस्मत्रानुसारिणीम् ।। ४ ।।
तबादौ सकलकर्मपरिभाषा | कर्माणि यज्ञोपवीतिना कृताचमनेन कर्तव्यानि, पैतृकाण प्राचीनावीतिना, मानुषाणि निवीतिना । कर्तव्यानीति तु तत्रतत्र वक्ष्यामः । सर्वेषां कर्मणामनुष्ठानमुत्तरायणे पूर्वपक्षे पुण्यनक्षत्रे पुण्यदिने मध्याह्नात्पूर्व विशेषकालानुक्तौ । येषां तु कर्मणामनुष्ठानं दक्षिणायनेऽपरपक्षेऽपराले सायं रात्रौ वा
For Private And Personal