________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[३ प्र. ६ का.
ग्टह्यसूत्रम्।
પૂર
जुरक्षरार्थः । अत्र किन्त्रिबक्तव्यमस्ति । पश्चादग्नेरिति करणमग्न्यागारनियमार्थम् । तेन, अग्न्यागार एव स्वस्तरास्तरणं कर्त्तव्यम् । एवञ्च, अग्न्युपदेशस्थान्यार्थवादहोमकोऽयम्-दूति केचित् । पुंसवनादिवत्तु अयमपि सहोमक एव स्यात्-इति अपरे। प्राग्वमन्तादुदगयने यत् पुण्यमह स्तत्र पूर्वमन्वाहार्यश्राद्धं कृत्वा सायं बलिहरणान्ते नित्यकर्मणि कृते, स्वस्तरास्तरणं करणीयम् । तथा च ग्टह्यान्तरम् । “प्राग्वमन्तादुदगयने पुण्येऽहि सायं स्वस्तरमुदगग्रमास्तीर्य"-इत्यादि । अस्मद्ह्यकारपरिभाषामिद्धमुदगयनादिमात्रं वा खस्तरारोहणस्य कालः स्यात् । केचितु,-"ऊई स्वस्तरशायो स्यात्" इति वचनमालोचनमात्रेण पश्यन्तः, आग्रहायण्यङ्गत्वं स्वस्तरारोहणस्य मन्यमानाः, तत्रैवावमरे स्वस्तरास्तरणम्-दूच्छन्ति । तदमङ्गतम्। ऊईमित्यनेनाग्रहायण्या जीवमात्रस्यावगमात्।
“पारिभाषिक एव स्थात् कालो गोवाजियज्ञयोः।
अन्यस्यानुपदेशात्तु स्वस्तरारोहणस्य च" । इति परिशिष्टवचनविरोधाच्च ॥०॥ १२ ॥०॥
उदगग्रैस्तृणैः ॥ १३॥ स्वस्तरमास्तारयेदिति वर्तते ।।०॥ १३ ॥०॥
उदकप्रवणम्॥१४॥
उत्तरस्यां दिशि क्रमनिम्नं स्वस्तरमास्तारयेत् ॥०॥१४॥०॥
For Private and Personal Use Only