________________
Shri Mahavir Jain Aradhana Kendra
५८२
www.kobatirth.org
[३ प्र. ९ का . ]
तस्मिन्नहतान्यास्तरणान्यास्तीर्य दक्षिणता गृह
पति रूपविशति ॥ १५ ॥
॥ ० ॥ १५ ॥ ० ॥
तस्य चोन्तरतः, -
Acharya Shri Kailassagarsuri Gyanmandir
गोभिलीयं
तस्मिन् स्वस्तरे अहतान्यखण्डितानि श्रस्तरणानि कम्बलादीनि आस्ती, दक्षिणतः - स्वस्तरस्य दक्षिणे भागे, ग्टहपतिरुपविशति ॥
अनन्तरा अवरे यथाज्येष्ठम् ॥ १६ ॥
अवरे कनिष्ठा, अनन्तराः श्रव्यवहिताः सन्तो यथाज्येष्ठं ज्येष्ठानुक्रमेणेोपविशन्ति । यो यो ज्येष्ठः स स ग्टहपतेरनन्तरो यथा
1
स्यादित्यर्थः ।
पवं वा, --
अनन्तरा श्रव्यवहिताः - एकपाकेोपजीविनः तद्ग्टच्ह्या इत्येतत् । तदेवम्भूता श्रवरे यथाज्येष्ठमुपविशन्ति ॥ ० ॥ १६ ॥ ० ॥
तेषामप्युत्तरतः,—
अनन्तराश्च भार्य्याः सजाताः ॥ १७ ॥
अनन्तराः,—इत्युक्तार्थम् । भाया: गृहपतिप्रभृतीनां पत्न्यः सजाताः सापत्या उपविशन्ति । जातमपत्यम् । चशब्दः उपवेशनक्रम विशेषद्योतनार्थः । कथं नाम ? । येन क्रमेण ग्टहपतिप्रभृतय उपविष्टाः, तेनैव क्रमेण तेषां भायी श्रप्युपविशेयुः । श्रपत्यान्यपि स्वस्याः स्वस्या मातुरुत्सङ्गे उत्तरतो वा उपविशेयुः, इति ।
For Private and Personal Use Only