________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[३ प्र.९ का. ]
अथैवम्, अत्र यथाज्येष्ठमुपवेशनं न स्यात् ? । मा भवतु, का नो हानिः । श्रथवा । पत्युरेव वयसा स्त्रीणां वृद्धत्वस्मरणात् पतीनाञ्च यथाज्येष्ठमुपवेशनात् भायीणां स्वस्वपतिक्रमेोपवेशने यथाज्येष्ठत्वमपि कथञ्चिदनुग्टह्यत एव । परमार्थतस्तु, सजातानां भार्य्यीणामुपवेशनं स्वत्रयन्नाचार्थे नात्र यथाज्येष्ठमुपवेशनमनुजानातीत्यवगम्यते । एतदर्थं चशब्दं प्रयुक्तवान् । भार्य्याः पुनः सापत्या उपविशन्ति न पुनरत्रापि यथाज्येष्ठत्वनियमः, -इत्यभिप्रायः । न खल्वेवमपत्यानां यथाज्येष्ठमुपवेशनं सम्भवति । अन् पुनरत्रापि यथाज्येष्ठमुपवेशनमिच्छन्ति ॥ ० ॥ १७ ॥ ० ॥
गृह्यसूत्रम् ।
५८३
समुपविष्टेषु गृहपतिः स्वस्तरे न्यज्वा पाणी प्रतिष्ठाप्य स्योना पृथिवि नेो भवेत्येताम्मृचं जपति ॥ १८ ॥ समुपविष्टेषु, – सम्यक् — प्राङ्मुखेषु उपविष्टेषु सर्व्वेव्वित्यर्थः । कस्मात् ? । “प्राङ्मुखकरणञ्चानादेशे ” – इति सूत्रकारवचनात् । स्पष्टमन्यत् । एतामिति स्वरवर्णसम्पादनार्थं छन्दोविज्ञानार्थमविलापार्थञ्च । कथं नाम ? । एतामेवम्भूतां मेतिकरणामेव जपतीति । अन्यथा खल्चितिकरण विलोपमपि कश्चिदाशङ्कीत ||
॥ ॥ १८ ॥ ० ॥
समाप्ताया: संविशन्ति दक्षिणैः पार्श्वः ॥ १८ ॥
समाप्तायामेव ऋचि दक्षिणैः पार्श्वः संविशन्ति खपन्ति । तस्मि नेव स्वस्तरे ॥ ० ॥ १८ ॥ ० ॥
For Private and Personal Use Only