________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
५९०
गोभिलोयं
[३ प्र. ६ का.]
निर्वापः। कुतः ?। देवतान्तरस्थानुपदेशात् मन्त्रस्य चाव्यक्त - लिङ्गवात् श्रुताया एवाग्रहायण्यादेवतात्वस्य कल्पयितुमुचितत्वात्। “अनाज्ञातेषु तथादेशम"-हत्यग्रे सूत्रणाच ।। ०॥८॥०॥
तस्य जुहुयात् प्रथमा हव्युवाससेति ॥ ६ ॥ व्याख्यातप्रायमेतत् ॥०॥ ८ ॥०॥
स्थालीपाकास्ताऽन्यत् ॥ १० ॥ कृतभाष्यं सूत्रम् ॥०॥ १० ॥०॥
पश्चादग्ने वर्हिषि न्यच्चा पाणी प्रतिष्ठाप्य प्रतिक्षत्र इत्येता व्याहृती जपति ॥ ११ ॥ अग्नेः पश्चिमतः व षि कुशोपरि न्यच्चा अधामुखी पाण पूर्वोक्तप्रकारेण प्रतिष्ठाप्य, प्रतिक्षत्र इत्येता: प्रतिशब्दा व्याहृती जपति । व्याहतिग्रहणं स्तुत्यर्थम् । अत्राग्रहायणीकर्मणः परिसमाप्तिः । वामदेव्यमिदानी गातव्यम्। यदि कैश्चित् कथञ्चित श्रवणाकर्म न कृतं, तदा ते राग्रहायण्यां बलयो न हर्त्तव्याः, सर्वमन्यत् पूर्ववदेव करणीयम्। तथा चोक्तम्। .. "श्रवणाकर्म लुप्तञ्चेत् कथञ्चित् सूतकादिना ।
___ आग्रहायणिकं कुर्याइलिवजमशेषतः” । इति ॥ ॥ ११ ॥०॥ अथेदानों स्वस्तरारोहणं प्रस्तूयते,
पश्चादग्नेः स्वस्तरमास्तारयेत् ॥ १२॥
For Private and Personal Use Only