________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[३ प्र. ६ का. ]
गृह्यसूत्रम् ।
प्रतिकुम्भम् मावृत्तिबेोद्धव्या । कस्मात् ? । “भेदे मन्त्रावृत्तिः" - इति सूत्रणात् । तथा चोक्तम् । “प्रतिकुम्भम्टचं पठेत्” – इति । सेाऽयं मणिक संस्कारः । एवञ्च, “मणिकादा गृहीयात् " - इति यदुक्तं तदेतस्मात् संस्कृतान्मणिका ग्रहणीयम्। यच्च, उदधानस्य बलिहरणमुक्त, तदप्येतस्यैव बोद्धव्यम् ।
श्रदं सन्दिह्यते । श्राग्रहायण्या ऊईं यदि मणिको नष्टो विनष्टो वा भवति, तदा किमेतावन्तं कालमपेच्य पुनराग्रहायण्यामागतायामेव मणिकान्तरं संस्करणीयम्, उत यदैव विपद्यते तदेवान्यदाहृत्य ? - इति । तदेव - इति ब्रूमः । कस्मात् ? । श्रस्य कमीर्थत्वात् । तावन्तं कालं मलिकाभावे हि कर्मणे नाभिनिष्पत्तिः स्यात्, स्यादा न सुकरा भवेत् । तथा चोक्तम् । "नटो विनष्टो मणिक: शिलानाशे तथैव च । तदैवात्य संस्कार्थे नापेक्षेदाग्रहायणीम्” ।
इति । यदि पुनरन्यस्यामाग्रहायण्यामागतायामपि पूर्वसंस्कृत एव मfear दृढो वर्त्तते, तदोदकुम्भा से चनमात्रं कर्त्तव्यम् ।
कुत: ? ।
" दृढ़ श्वेदाग्रहायण्यामावृत्तावपि कणः । कुम्भो मन्त्रवदासिञ्चेत् प्रतिकुम्भम्मृचं पठेत्” ।
इति वचनात् ॥ ० ॥ ७ ॥ ० ॥
५७
प्रदोषे पायसश्चरुः ॥ ८ ॥
आग्रहायण्यामित्येव । श्रग्रहायण्यै त्वा जयं निर्व्वपामि, इति
1
जुष्टं
4 D 2
For Private and Personal Use Only