________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
कोड़पत्राणि ।
३१२ पृष्ठे ७पनी, निवेश्यं । तथाच ग्टह्यासंग्रहः । “विवाहे यो विधिः प्रोक्तोमन्त्रादाम्पत्यवाचकाः । वरस्तु तान् जपेत् सर्वान् ऋत्विकाजन्यवैश्ययोः', इति ।
३१८पृष्ठे १७पको 'रुच्यते' इत्यतः परं निवेश्यं । तथाच ग्टह्यासंग्रहः । “हुत्वाऽऽज्यं परिशेषेण यत् द्रव्यमुपकल्पितम् । सुवेणैव तु तत् स्पृष्टं सम्पातञ्चैव तं विदुः” इति ।
३२ ३ पृष्ठे पंको 'प्रमाणाभावात्' इत्यतः परं निवेश्यं । वस्तुतस्तु आसुरादिविवाहोढ़ायाः प्रेतकृत्यं पिटगोत्रेण कर्त्तव्यमिति वृद्धशातातपेनोकम् । यथा। "श्रासुरादिविवाहेषु पित्गोत्रेण धर्मवित्" इति । सपिण्डीकरणत्वस्यास्तन्मात्रादिभिः करणीयमित्याह सएव । “तन्मात्रा तपितामह्या तत्श्वा वा सपिण्डनम्। श्रासुरादिविवाहेषु विन्नानां योषितां भवेत्” इति । एवमपि, सपिण्डीकरणेनैकभूर्त्तित्वप्राप्तहेतुत्वेनोपादानात् प्राचीनं वचनम्-चतुर्थोतः पूर्वमेव या संस्थिता, तद्विषयमेव पर्यवस्यति, इति ध्येयम् ।
३२७पृष्ठे ७पंकी निवेश्यं । परमार्थतस्तु, तत्र ‘हविष्यमन्नम्'-इति सूत्रयन् एतदेवाक्षारलवणं व्याकरोति । तस्मात् ,-"अयुक्रमम्सलवणैरपर्युषितमेवच । इविष्यमेतदन्नाद्यमसुरैश्चाप्यसंयुतम्” इति ग्टह्यासंग्रहातस्याशनं बोद्धव्यम्।
For Private and Personal Use Only