________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्रोडपत्राणि ।
३ ० ५ पृष्ठे ३पनी, 'इति'-इत्यतः परं निवेश्यं । वस्तुतस्तु, “तथा लाजाञ्जलिर्बध्वा हयतेऽङ्गलिपर्वभिः” इति ग्टह्मामंग्रहोकप्रकारेणास्माकमयं होमोभवति, न शाखान्तरोकप्रकारेण । स्वशाखाश्रयमुत्सृज्य परशाखाश्रयकरणस्य निषेधादिति द्रष्टव्यम् ।
३०८पृष्ठे ४ पंको निवेश्यं । "प्राजग्राहमुदग्राहं ब्रह्माणविजं तथा । एतानि वाह्यतः कृत्वा शेषाणान्तु प्रदक्षिणम्” इति। यश्चाय होमात् परतः परिणयः, सायं ब्राह्यादिषु विवाहेषु द्रष्टव्यः । गान्धर्वादिषु पुनर्विवाहेषु प्रथममेव परिणयः ततोहामः करणीयः । तथा च ग्टह्यासंग्रहः । “ब्रह्मस्थार्षस्य दैवस्य प्राजापत्यस्य याज्ञिकैः। पूर्व होमविधिः प्रोक्तः पश्चात् परिणयः स्मृतः । गान्धासुरपैशाचाविवाहाराक्षसाश्च ये । तेषां परिणयः पूर्वं पश्चाद्धामो विधीयते” इति । स खल्वयमाचा-ब्राह्मादीन् प्रशस्तान् विवाहानभिप्रेत्य होमात् परतः परिणयनं सूत्रयाञ्चकार, इति लिय्यते ।
३०८ पृष्ठे १२ पंको 'ग्टह्यान्तराच'-इत्यतः परं निवेश्यं । नैतत् समीचीनम् । कुतः ?। स्वशास्त्रविरोधात् । तथा च ग्टह्यासंग्रहः । “एवं लाजहविः शेषं हूयते सर्पजिहया” इति । तस्मादस्माकं सर्पजिव्हयैतद्धोतव्यं भवति ।
For Private and Personal Use Only