________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्रोड़पत्राणि ।
कृता दक्षिणामभिधाय चर्चङ्गस्याभिधानात् दक्षिणानन्तरं चरुः स्यात् । प्राचार्यापि ब्रह्मस्यापनात् परम् , “अथोलूखलमूषले"इत्यादिना चरुश्रपणं सूत्रयिष्यति । तस्मात् 'अन्यत्' चरुश्रपणादिकम्, इति वर्णनीयम् । अनर्थकं तर्हि ; ननु 'अथोलूखलमूषले'इति सूत्रयिष्यत्येव । नानर्थकम् । कुतः ? । सामान्यविशेषभावापपत्तेः । अन्यत् चेष्टेत, इति सामान्यतः सूत्रयित्वा, अथोलूखलमूषले, इत्यादिना विशेषतः सूत्रणमुपपद्यते । आदरार्थत्वाच्च । आदरार्थं पुनरुपादानं खल्वाचार्याणं बहुलमुपलभ्यते । शास्त्रे चास्मिन् पुनरुक्तिराचार्य्यस्यानुमतेति पुरस्तान्निवेदितमस्माभिः। यत्र तु चरुनास्ति, तत्र, अन्यत् अाज्यसंस्कारादिकम् , इत्यभिप्रेत्य वा वचनमेतदुपपादनीयम्। द्रव्यामादनन्तु प्रास्तां तावदिदानी, यावदग्निस्थापनादपि पूर्व करणीयमिति पुरस्तादेव व्यवस्थापितमित्यास्तां विस्तरः ।
२३ १ पृष्ठे २० पंकी, 'ब्वपीत्यर्थ:'- इत्यतःपरं निवेश्यं । प्रकारान्तरमाह ग्टह्यासंग्रहः । “चतुर्मुष्टिश्चरुः कार्यश्चवर्णामुत्तरोऽपि वा"-दुति । मुष्टिः पलमिति ग्टह्यासंग्रहभाय्ये वक्ष्यामः ।
२३४ पृष्ठे ११पंकी निवेश्यं । अभिधारणञ्चेदं स्टतं पवित्रान्ततिं कृत्वा करणीयम् । तथाच सह्यासंग्रहः । “पवित्रान्तहितं कृत्वा चरुं प्राज्ञो भिघारयेत्। उदास्य चैव विधिना एवं तन्त्रं न लप्य ते” इति ।
For Private and Personal Use Only