________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्रोडपत्राणि ।
२२° पृष्ठे १३ पंक्ती 'ग्टह्यान्तरम्' – इत्यतः परं निवेश्यं । सेयममङ्गता वर्णना । कस्मात् ? । श्राचार्य्यपुत्राभिहितक्रमविरोधात् । तथाच गृह्यासंग्रहः । “लेखनाभ्युक्षणे कृत्वा निहितेऽग्नौ समिद्ददत् । ततेाभूमिग्रहं कृत्वा कुर्य्यात् परिसमूहनम् । ब्रह्माणमुपसंकल्प्य चरुश्रपणमारभेत्" - इति । कर्मप्रदीपाकस्तु क्रमश्राधानविषयः । कुतः ? | तत्रैव तदभिधानात् । गृह्यान्तरमपि श्रन्येषामेव नास्माकम् । कात्यायनादिभिर्हि तत् सूचितम् । ते किल कालादिशाखिनां चकाराः ।
1
२२८पृष्ठे ८ पंक्ती, 'तत्त्वकार:' - इत्यतः परं निवेश्यं । परमार्थतः पुनर्व्विकल्पएवानयोर्वक्तव्यः । कथं नाम ? । पञ्चाशद्भिर्वा - कुशैर्भवेत् अपरिमितैर्वा, - इति । कुत: ? । संख्यावचनस्याप्यस्माच्छाखाविषयत्वात्। ग्टह्यासंग्रहे खल्वाचार्यपुत्रः “पञ्चाशद्भिः कुशैर्ब्रह्मा", -
इत्याह ।
२२८ पृष्ठे १६ पंक्ती, 'उक्तम्' - इत्यतः परं निवेश्यं । इदन्त्विह वक्तव्यम् । कर्मप्रदीपकृता पदार्थानामुपन्यासमात्रं कृतं न तु क्रमोप्यमीषामभिहितः । तथाविधवचनव्यक्तेरभावात् । तत्र, चर्व्वङ्गमभिधाय भूमिजपप्रकाराभिधानात् खल्वानुमानिकः क्रमः परिचिकल्पयिषितः । स चायमाचार्यपुत्राभिहितप्रत्यतक्रमविरोधाद्भवितुं नाईति । तथाच " लेखनाभ्युक्षणे कृत्वा " - इत्यादि पुरस्तादुदाहृतम् । तस्मादाचार्य्यपुत्रवचनात् भूमिजपं त्यृचेन परिसमूहनञ्च कृत्वा ब्रह्मस्थापनं कर्त्तव्यं, ततश्चरुश्रपणमित्यादरणीयम् । न चेदेवम्, कर्मप्रदीप
For Private and Personal Use Only