________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
क्रोडपत्राणि |
हितं स्नानग्रन्थे । तथैव प्रधानतर्पणं कात्यायनेन कर्मप्रदीपे। कः खल्चनुन्मत्तः सपरिकराभिहितयोरनयोः प्रकृतिविकारभावमाचक्षीत ! । तस्मादन्यादृशमेव तर्पणं स्नानाङ्गं सवितुरुपस्थानात् परतः करणीयमाचार्येणोक्तम् , अन्यादृशमेव च प्रधानं तर्पणं ब्रह्मयज्ञात् परस्तात् कर्त्तव्यं कात्यायनेनोक्तमिति न किञ्चिदनुचितम् ।
२११पृष्ठे ८ पंको ‘सूचयति' इत्यतः परं निवेश्यं । उपकल्पनञ्चामीषामनेरुत्तरतउदगग्राणं प्राञ्चं प्राञ्चं प्रयोजनानसारेण करणीयम्। तथाच कर्मप्रदीपः । “प्राञ्चं प्राञ्चमुदगग्नेरुदगग्रं समीपतः। तत्तथाऽऽसादयेत् द्रव्यं यद्यथा विनियुज्यते” इति । उपकल्पितानाञ्चामीषां वीक्षणं प्रोक्षणञ्चाद्भिः कर्त्तव्यम्। कुतः ? । "द्रव्याणामुपक्लूप्तानां होमीयानां यथाविधि । प्रसिञ्चन् वीक्षणं कुर्यादभिरभ्युक्षणन्तथा” इति ग्टह्यासंग्रहवचनात्। तदिदं द्रव्यामादनं स्थण्डिलोपलेपनात् परतएव करणीयम् । तथैवाचार्येण सूत्रणात् । प्राचार्यपत्रीऽपि ग्टह्यासंग्रहे । “भूमेः समूहनं कृत्वा गोमयेनोपलिप्य च । द्रव्याण्युत्तरतः स्थाप्य वृषों कुर्य्यादुदमुखीम्"इत्युपलेपनात् परं द्रव्यासादनमभिधाय, पश्चाल्लक्षणकरणमग्निस्थापनादिकञ्चाभिहितवान् । एवञ्च, “पुरोडाशकपालेन तुषानुपवपति"इत्यत्र यथा भविष्यता पुरोडाशेन कपालस्याभिसंबन्धः, तददत्रापि भविष्यतैवाग्मिना उत्तरस्याभिसंबन्धोबोद्धव्यः । अग्निस्थापनात् पूर्वमेव द्रव्यासादनस्योपदेशादनन्यगतेर्वचनात् ।
For Private and Personal Use Only