________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १२ ]
चाबीक् गोभिलः प्रादुर्भूतइति ध्रुवं । ब्राह्मणानां वेदतता यद्ययपौरुषेयत्वं भगवतेाजैमिनेरनुमतं, तथापि तेषां प्रवचनकालभेदो न शक्योऽपलपितुं । श्रस्मिंश्वार्थे, “पुराणप्रोकेषु ब्राह्मणकल्पेषु ” ( पा० ४ श्र० ३पा० १० ५ ० ) इति सूत्रयतः पाणिनेः स्वरसेाऽप्यवगम्यते । अस्मात् खल सूत्रादिदमवगम्यते; यद्ब्राह्मणकल्पाः पुराणप्रोका अवाचीनप्रोक्ताश्च सन्तीति । तथाच, "पुराणप्रोक्तेष्विति किं याज्ञवल्क्यानि ब्राह्मणानि श्राश्मरथ्यः कल्पः । याज्ञवल्क्यादयोऽचिरकालाइत्याख्यानेषु वाती, तया व्यवहरति सूत्रकारः”— इति जयादित्येनेाक्तं । एवं " पुराणप्रोकेषु ब्राह्मणकल्पेषु याज्ञवल्क्यादिभ्यः प्रतिषेधस्तुल्यकालत्वात् ” - इनि वार्त्तिककारेणाभिहितं । तथा, "पुराणप्रोक्रेव्वित्यत्र याज्ञवल्क्यादिभ्यः प्रतिषेधोवक्तव्यः । याज्ञवल्क्यानि ब्राह्मणानि सौलभानीति । किं कारणं । तुल्यकालत्वात् । एतान्यपि तुल्यकालानीति" - इति व्याकरणमहाभाष्यं । तदनेनावगम्यते सर्व्वाणि ब्राह्मणानि नैकस्मिन् समये प्रोकानि, किन्तु कालभेदेन तदमीषां कानिचित् चिरकालं प्रोक्तानि कानिचिच्चाचिरकालमिति । ब्राह्मणाञ्च मन्त्रव्याख्यानरूपतया भन्त्रभागात् पराचीनत्वं ज्ञायते - इत्यन्यदेतत् । भगवतावात्स्यायनस्य तु मतं ऋषिरुपदेष्टा ब्राह्मणानामिति लक्ष्यते । तथाच तेनाकं न्यायभाष्ये । “न भिद्यते च लौकिकाद्वाक्याद्वैदिकं वाक्यं प्रेक्षापूर्व्वकारि पुरुषप्रणीतत्वेन, तत्र लौकिकस्तावदपरीक्षकोपि न जातमात्रं कुमारकमेवं ब्रूयादधीष्व यजस्व ब्रह्मचर्यं चरेति कुतएवं ऋषिरुपपन्नानवद्यवादी उपदेशार्थेन प्रयुक्त उपदिशति” (न्या० भा० ४० १ ० ६ ० ० ) इति ।
For Private and Personal Use Only