________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ १३ ]
तथा “यएव मन्त्रब्राह्मणस्य द्रष्टारः प्रवकारश्च ते खल्वितिहासपुराणस्य धर्मशास्त्रस्य चेति”-(न्या ०भा० ४ अ० १०६२ सू०) इति । यद्यपि स्नानग्रन्थे वंशब्राह्मणोकस्य “नमोब्रह्मणे"-इत्यादिकस्य तर्पणे विनियोगोदृश्यते, तथापि गोभिलस्य वंशब्राह्मणप्रचारात् पराचीनत्वं न शङ्कितुमहं। स्नानग्रन्थस्य गोभिलपरिशिष्टरूपतया वीरमित्रोदयादावुकत्वात् । अतएव तद्ग्रन्थशेषे “इति गोभिलीयाः” इत्यभिधानं सङ्गच्छते । गोभिलकृतत्वे तस्य तन्नोपपद्यते ।
परन्त वंशब्राह्मणे बहवोगोभिलाउल्लिखिताः। तत्र, कतमा गोभिलोग्टह्यसूत्रस्थास्य कर्जेति न तत्त्वतोऽधिगच्छामः। (सम्भावयामः) योयं निरुपपदोगोभिलोहदोराचार्य: शिव्यश्च राधगौतमस्य, सायं ग्टह्यसूत्रस्य कती इति । यतागोभिलकृतितयैवास्य प्रसिद्धिर्न नामान्तरेण । ग्रह्यासंग्रहेऽपि गौभिलतयैवास्योल्लेखः । गोभिलश्च निरुपपदः मएव। स ख त्वयं गोभिलसम्प्रदायानामादिभूतः पूर्वतनोऽष्टमश्चेति वंश ब्राह्मणप्रचारकालादपि चिरन्तन:-इति
शिवं ।
सहर सेरपुर। १३ आषाढ़। १८०२ शकाब्द ।
(तीलङ्कारोपनामक । श्रीचन्द्रकान्तशर्मणः ।
For Private and Personal Use Only