________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[१०]
aai शाखाभेदोपि श्राश्वलायनस्य नाम्ना प्रचरति । योहि ब्राह्मणस्य प्रवक्ता यदीयकल्पसूत्रस्यारण्यकतया प्रसिद्धि:, यन्नाम्नाच वेदशाखाप्रचारः, स तु वैदिकसमये प्रादुर्भूतोऽतीत्रप्राचीनत्यच कः सन्देहः । गोभिलस्त्वाश्वलायनादपि पूर्व्ववर्त्तीत्यतीव प्राचीनतोयं वैदिककालीनश्चेति ।
दूदञ्चाच द्रष्टव्यं । मन्त्रभागोक्तानां मन्त्राणां विनियोगः ब्राह्मणेषु व्युत्पादितः । ब्राह्मणो मन्त्राणाञ्च विनियोगः प्रायः कल्पसूत्रेषु । गृह्यसूत्रे त्वस्मिन् उपनिषद् ब्राह्मणापरनामधेय - मन्त्रब्राह्मलोकानां 'देवसवितः ' – इत्यादि मन्त्राणां विनियोगोऽनुशिष्टः । मन्त्र ब्राह्मणे तु सर्व्वे संस्कारमन्त्राः पठिताः । संस्काराश्चातिप्राचीनतम - कालएव सुव्यवस्थाः इति ग्रन्थोप्ययमुपनिषद्द्ब्राह्मणप्रचारात् परतः प्राचीनतमकालएव निर्भितइत्यनुमीयते ।
गोभिलस्रुत्रेभ्यस्तदानीन्तनेा लोकाचारः कियानुपलभ्यते । सचेत्थं । चैवर्णिकाः साग्निकाः । वैदिक-दर्शपौर्णमासादि-स्मातीष्टकादि-यज्ञादि-धर्माचरणपराः । शूद्राणान्तु न कोपि धर्मस्तत्रेापलभ्यते । शूद्रैः सह गमनमपि निषिद्धं । ब्रह्मचर्याश्रमस्य बाहुल्येनाचरणं । विवाह: सुव्यवस्थः । ग्टहस्थानां दण्डादिधारणं । उपानद्धिरण्यस्त्रक्क्त्रादिकं सुव्यवहृतं । रथस्य बाहुल्येन व्यवहारः । गावोधनमभ्यर्हितं । श्रश्वीऽप्यभ्यर्हितएव । कृषिकर्म्मणां बाहुल्येन प्रचारः । ऋणादानं प्रवृत्तं । वाणिज्यस्य विस्तारः । श्रौमशालौर्णवसनानां व्यवहारः । कृष्णसारादिचर्मणां व्यवहारः । गोयानं व्यवहृतं । शकटं व्यवहृतं । नौर्व्यवहृता । मणिक व्यवहृतः । श्रपूपाः व्यवहृताः । मांसभक्षणं व्यवहृतं । विस्तृतः
For Private and Personal Use Only