________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[C]
रीतिमनुसरति । तस्मादनुमीयते - ब्राह्मणसमये प्रादुर्भूतोऽयमिति । स चायं पारस्कराश्वलायनाभ्यामपि पूर्व्वकालीनइति ज्ञायते । यतः " प्रेते वा ग्टहपतौ परमेष्ठिकरणं” (१ प्र ० १ का ० १२० ) इति सूत्रयता गोभिलेन ग्टहपतौ प्रेते धानमुकं । " आधानस्य तु चत्वार
उक्ताः कालाः पृथक् पृथक् । त्या ममिवाश्च विभागः परमे - ष्ठिनः” – (ग्टह्या ० १५० १६ श्लो० ) इति गोभिलपुत्रेण विभाग - कालोप्याधानका लतयोकः । पारस्करेण तु "दायायकाल एकेषां " ( १ का ० १६० ) इति सूत्रयता तद्मयमुपन्यस्तं । एवं " श्रपिवान्यं मथित्वाऽभ्यादध्यात् ” (१ प्र ० १ का ० १७० ) इत्यारणेयोऽग्निगीभिलेनेाक्तः । “अरणिप्रदानमेके” (१ का ० १८०) इति पारस्करेणकेषां मतमिति कृत्वा तदुपन्यस्तं । तथा " अष्टका राचिदेवता " ( ३५० १० का ० १ ० ) इति सूत्रतया गोभिलेनाष्टकाया - रात्रिदेवतात्वमुकं । श्राश्वलायनेन तु श्रष्टकादेवताप्रस्तावे “रात्रिदेवतामेके” ( २ ० ४० १२० ) इति सूत्रयता गोभिलीयं मतमेतन्निर्दिष्टं । 'अतः पारस्कराश्वलायनाभ्यां गोभिलः प्राचीनतमः ग्रन्थश्चायं तत्तदुग्रन्याभ्यामिति श्लिष्यते । श्राश्वलायनाप्यतीव प्राचीन:, स हि शाकलसमाम्नायस्य वाष्कलसमाम्नायस्य च कल्पसूत्रं प्रणिनाय । तत्प्रणीतञ्च महाव्रतप्रयोगप्रतिपादकं कल्पसूत्रं पञ्चमारण्यकतया वेदत्वेन प्रसिद्ध * । श्रश्वलायनप्रोक्तं ब्राह्मणमप्यस्ति ।
* वक्चामध्यापकामहाव्रतप्रयोगप्रतिपादकमाश्वलायननिर्मितं कल्पसूत्रमरण्येऽधीयमानाः पञ्चममारण्यकमिति वेदत्वेन व्यवहरन्ति । (जै०न्या० ६ ० २ पा० १ ० २ ० ) ।
+ कठशाखाश्वलायनब्राह्मणं । श्रश्वलायनब्राह्मणं । ( मलमास तत्त्वे ) ।
For Private and Personal Use Only