________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ - ]
किमप्यत्र नोपलभ्यते । ग्टह्यशास्त्रस्य तु पुराणेषु मन्वादिस्मृतिषु च बहुत्रोले खोवर्त्तते । गोभिलग्रन्थे च 'आगाहमानि : ' - इति, 'वार्कखण्डि : ' - इति चाश्रुतपूर्वं ऋषिनामदयं श्रूयते । तावेतावृषी ईदृक्प्राचीनौ यत् परवर्त्तिग्रन्थेष्वनयोनामापि न श्रूयते । श्रतेोपि गोभिलस्वातिप्राचीनत्वं ज्ञायते ।
--
अपि च | कलौ तावद्वालम्भोमांसदानञ्च * श्राद्धे निषिद्धं । गोभिलेन तु मध्यमाष्टकायां वास्तुकर्मणि च गवालम्भोविहितः । मांसचरुश्चान्वष्टश्राद्धे । ततः कलेः पूर्व्वमयं ग्रन्थोनिर्मितइति गम्यते । गोभिलश्चास्मिन् शास्त्रे वैदिकानपि शब्दान् प्रयुक्तवान् । सुराशब्दः खल्वनेन उदकार्थे प्रयुक्तः ( ट ० २प्र ० १ का ० १ ० ० ) । स तु वैदिकrat | एवमन्येपि शब्दानुसन्धेयाः । सायं सुराशब्दः कस्मिंश्चिदतीते काले उदकार्थे व्यवहृतत्रासीत् । स च कालोऽतीततमः | स्मार्त्तेषु ग्रन्थेषु तददर्शनात् । उपवसतिरपि अनेन कैश्चिन्नियमैर्विशिष्टस्य नियमितस्य वस्तुन एकस्मिन्नाहारे प्रयुक्तः । सेोपि तस्मिन्नर्थे तदानीं व्यवहृतएवेति । ग्टह्यत्रकालात् परतस्त्वयमहोरात्राभोजनार्थे व्यवहृताऽभूत् ? । रचनारीतिरपि गोभिलस्य ब्राह्मणसम्बन्धिनों रचना
1
* अश्वमेधं गवालम्भं सन्यासं पलपैटकं । देवरेण सुतात्पत्तिं कलौ पच्च विवर्जयेत् । (मलमास तत्त्वष्टतवचनं ) ।
† सुराशब्दोहि नैघण्टुककाण्डे (१, १२) उदकनामसु पठितः । तच्च तत्र पञ्चविंशतितमं नाम ।
+ “सन्ध्यां पौर्णमासीमुपवसेत्” – इति, " व्यथापराहस्वानुत्यौपवसथिकं दम्पती सञ्जीयातां ” इत्यादिसूत्र सन्दर्भादयमर्थेऽवगम्यते ।
$ नित्योपवासीयामर्त्यः सायं प्रातर्भुजिक्रियां । सन्त्यजेन्मतिमान् विप्रः सम्प्राप्ते हरिवासरे । ( एकादशीतत्त्वष्टतं कात्यायनवचनं ) ।
For Private and Personal Use Only