________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ 9 ]
होमेतिकर्तव्यता-दीक्षाऽनेकप्रकारकाम्यकावसाननिर्णय-वास्तुशमन(मधुपर्कापरनामधेय) अर्हणान्युपदिष्टानि । असङ्गागतञ्चान्यत् ।
गोभिलः कदा प्रादुरभूत् कदा वा तेनेदं गृह्यसूत्रं निर्मितमिति तत्त्वतानिश्शेतुं न शक्यते । परमयं बहुप्राचीनइत्यत्र न सन्देहः । (सम्भावयामः) यदा गोभिलोग्रन्थमेतं रचितवान् , तदा लौकिकपद्यरचनायां लोकस्य कियदौत्सुक्यमजनि। यताऽनेन ग्टह्यसूत्रस्य चतुर्थप्रपाठकस्य सप्तमकाण्डिकायां त्रीणि सूत्राण्यनुष्टुपछन्दमा निर्मितानि । तत्रापि द्वितोयश्लोकस्य प्रथमचरणे नवाक्षराणि* हतीयश्लोकस्य द्वितीयचरणे सप्ताक्षराणि इति वैदिकवदेवाक्षरसमता नास्ति । वैदिकेषु छन्दःसु खल्वेकाक्षरन्यूनाधिक्यमगणनीयमेव । गोभिलपुत्रेणापि पद्यैरेव ग्टह्यासंग्रहाऽरचि । तत्रापि वैदिकवदेव बहुताक्षरन्यूनाधिक्यं गुरुलघुभावव्यत्यासश्चापलभ्यते । तदेवमनुमीयते ; यदा गोभिल-तत्पुत्राभ्यां ग्रन्थोनिरमायि, तदा लौकिकपद्यरचनाप्रणाली न सुटङ्खला जाता। यदयं गोभिलः पद्यत्रयमा निर्मिमाणोपि पद्यद्दयेऽक्षरन्यूनाधिक्यं कुर्वन् लौकिकछन्दसोलक्षणं न सुष्टु रक्षितवान्। तचैतन्त्राशक्तिकृतं किन्तु तात्कालिकरीत्यनुगतमिति लिय्यते। ततोग्रन्थोयं मन्वादिमंहिताभ्योबहुप्राचीनः, कैव कथा पुराणादीनां । पुराणादिप्रतिपाद्यदेवार्चनादिकं * अश्वत्थादग्निभयं विद्यात् लक्षाब्रूयात् प्रमायुकान् ।
न्यग्रोधाच्छस्त्रसंपीड़ामच्यामयमुदुम्बरात् ॥ + आदित्यदेवतोऽश्वत्थः लक्षोयमदेवतः ।
न्यग्रोधोवारुणोरक्षः प्राजापत्यउदुम्बरः॥ । नोकस्मादक्षराद्विराधयन्ति । (ताण्ड्यब्राह्मण, १५ प्र. १२ ख०)
For Private and Personal Use Only