________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शिष्टतया कल्पितः, न त यं श्राद्धकल्पोवाशिष्ठीभवितुमर्हति । तदेवं नियूढं निश्चेतुमशक्यत्वात् प्रख्यातनाम्नां श्रीदत्तादोनां प्रसिद्धेश्चानुरोधः अत्राश्रितः ।
गोभिल्लरह्यसूत्रस्य खण्डाः कैश्चित् कण्डिकानाम्ना कैश्चिच्च काण्डिकानाम्ना व्यवहृताः । अस्माभिस्तु भट्टनारायण-रघुनन्दनादीनां मतमनुरुन्धानरुत्तरएव पक्षोऽवलम्बितति ज्ञेयं । तदस्मिन् ग्टह्यसूत्रे प्रपाठकनामानश्च त्वारोऽध्यायाः सन्ति । प्रथमेऽध्याये काण्डिकानामानः खण्डानव विद्यन्ते, शिष्टेष्वध्यायेषु प्रत्येकं दश । तदेवमुनचत्वारिंशद्भिः खण्डैर्बिभनायं ग्रन्थः। तत्र प्रथमेऽध्याये, श्राधानकाल-सायंप्रात:म-वैश्वदेव-बलिकावश्यक होमेतिकर्त्तव्यता-दर्शपौर्णमास-ब्रह्मस्थापन-चरुश्रपण-पुनराधानव्यवस्थाः परिभाषाश्च काश्चिदभिहिताः । द्वितीयेऽध्याये,-विवाह-(गर्भधानापरनामधेय) भम्भव-पुंसवन-सीमन्तकरण-सेय्यन्तीहोम-जातकर्म-(निष्क्रमणापरनामधेय) चन्द्रदर्शन-चन्द्रोपस्यान-नामकरण-जन्मतिथ्यादियाग- (प्रोषितागतकापरनामधेय) मूर्द्धाभिघ्राण-चूड़ाकरणोपनयनविधयः प्रदहिताः । तीयेऽध्याये,-गोदानव्रत-वातिकब्रतादित्यव्रतोपनिषदव्रत-ज्येष्ठमामव्रत-महानाम्निकव्रतोपाकात्सर्गानध्यायागुतप्रायश्चित्त(समावर्तनापरनामधेय) प्राप्तावन-स्नातकव्रत-गोपुष्टिकर्मा-गोयज्ञाश्वयज्ञ-प्रवणाकाश्वयुजीकर्म-नवयज्ञाग्रहायणीकर्म-स्वस्तरारोहणाष्टका काणि व्युत्पादितानि। चतुर्थेऽध्याय,-वपाश्रयणीहोमाटकाकर्मशेषान्वष्टक्य-पिण्डपित्यज्ञावाहार्य-वपाहोम-हलाभियोग-सीतायज्ञखलयज्ञ-प्रवपणयज्ञ-प्रलवनयज्ञ-पर्यायणयज्ञेन्द्राणीस्थालीपाक-काम्य
For Private and Personal Use Only