________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ ५ ]
वना । परमत्रापि संशयउदेति । वशिष्ठकृतस्तावत् कचिद् ग्रन्थच्छन्दोगानामस्तीत्यविवादं । स च ग्रन्थः क्वचित् ( भट्टभाय्यादौ ) कल्पतया, क्वचित (परिशिष्टप्रकाशादौ) छान्दोग्यग्टह्यतया, कश्चिच (शुद्धितत्वादी) परिशिष्टतया उल्लिखितः । तत्र च वशिष्ठकृत च्छन्दोगपरिशिष्टे वृषोत्सर्गस्य कालविधिरस्तीति शुद्धितत्त्वादौ व्यक्त | अत्र तु नास्ति वृषोत्मर्गस्य कालविधिरिति नेदं खितत्त्वाद्युल्लिखितं वशिष्ठकृतच्छन्दोगपरिशिष्टं । नाप्येतत् परिशिष्टप्रकाशानुमतं छान्दोग्यगृह्यं * । कृह्यकर्मणां विधानस्यात्राभावात् । श्राद्धकल्पसमाख्यत्वाच्च । एवं " प्राणसम्मितइत्यादि वाशिष्ठं बाधितं यथा" - इति कात्यायनोकोबाधितविषयपि। नात्रेोपलभ्यते । यदि तु ग्रन्थत्रयं वशिष्ठकृतं स्यात्, ग्रन्थोयं वाशिष्ठः कल्पइति शक्यते वक्तुं । श्रथ त्वेकएव वशिष्ठकृतग्रन्थः क्वचित् कल्पतया, क्वचित् ग्टह्यतया, कचिच्च परि
* छान्दोग्य-गृह्यनामा एकाग्रन्थोऽस्माभिरुपलब्धः, तत्र गृह्यकर्मणामेव विधिर्न स्य । स च ग्रन्थोन गोभिलीयानामिति सम्भाव्यते । क्वचित् क्वचित् गोभिलग्टह्यापेक्षया वैलक्षण्यस्य तत्रोपलम्भात् । छन्दोगापरसूत्रनामकं छन्दोगानां पिटमेधसूत्रमप्येकं दृष्टं । तत्र श्राद्धस्य विधिरस्ति वृषोत्सर्गस्य तु नास्ति । श्राद्धविधिरपि तत्रत्योगोभिलविलक्षणइति (सम्भावयामः) सेापि श्राद्धविधिर्न गोभिलीयानामिति ।
+ वाधितविषयेाऽत्रेवेापलब्धव्यइत्यत्रापि न निश्चयः । अन्यत्रापि तत्सम्भवात् ।
+ "वशिष्ठोक्तं च येावेद" इत्येकचैव वशिष्ठोक्तोग्रन्थोवाशिष्ठः कल्पइति भट्टनारायणस्य छान्दोग्यग्टह्यनामा इति नारायणोपाध्यायस्य च मतदर्श - नात् ग्रन्थत्रयं वशिष्ठकृतमस्तीत्यत्रापि न निश्चयः । यदि तु भट्टनारायणोक्तः कल्पः तत्त्वोक्तं छन्दोगपरिशिष्टञ्चेति ग्रन्यदयं वशिष्ठकृतं स्यात्, कल्पोयं वाशिष्ठोभवितुमर्हति ।
For Private and Personal Use Only