________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[४]
पुत्रस्य किं नामधेयमिति न खल्वधिगच्छामि। श्राद्धकल्पाख्यं श्राद्धसूत्रमपि गोभिलप्रणीतमिति श्रीदत्त-महायशः-ट्रलपाणि-वाचस्पति मिश्र-रघुनन्दनादीनां मतं । प्रसिद्धिश्चैवं । अस्माकन्तु गोभिलकृतमेवैतदित्यत्र न निश्चयः । तथाहि। छन्दोगपरिशिष्ठे वृद्धिश्राद्धप्रयोगप्रारम्भे, “वशिष्ठोकोविधिः कृत्स्नोद्रष्टव्योऽत्र निरामिषः”इति । अन्तेच, “इदं शास्त्रञ्च रह्यञ्च परिसंख्यानमेवच । वशिष्ठोकञ्च योवेद स श्राद्धं वेद नेतरः" इति कात्यायनेनोकं । एवमन्वछक्यकर्मणि ग्टह्मोनस्य प्रयोगस्थासम्पूर्णतया तत्पूर्णत्वार्थं, "आसनाद्यर्थ्यपर्यन्तं वशिष्ठेन यथोदितं । कृत्वा काथ पात्रेषु उक्तं दद्यात्तिलोदकं”-इत्यपि तेनैवोत। यदि गोभिलकृतमेवैतत् श्राद्धसूत्र स्यात्, तर्हि एतस्योल्लेखमकृत्वा वशिष्ठोक्तस्य तत्र तत्रोल्लेखः कात्यायनस्यानुचितः स्यात्। गोभिलस्यैव ग्रन्थान्तरे सम्पूर्णप्रयोगस्यापेक्षित विशेषस्य चावस्थितौ तदनुभिख्य तथाविधन्यूतनापरिहारार्थं मुन्यन्तरीयग्रन्थस्योल्लेखनं कथमनुचितं न भवेत् । श्रासनाद्यर्थ्यपर्य्यन्तकर्मकलापः खल्वत्र सुस्पष्टमुपदिष्टोवर्त्तते । तस्मात् नेदं श्राद्धसूत्रं गोभिलप्रणीतं किन्तु वशिष्ठकृतं परिशिष्टरूपमिति तावत् प्रतिभाति । तथा, “यवैस्तिलार्थः” (४, ३, ३७) इति ग्टह्यसूत्रस्य भाव्ये, “अन्योपि प्रातरामन्त्रितान् विप्रानित्येवमादिकः कर्मप्रदीपोकोविशेषः, वाशिष्ठश्च कल्पउपलब्धव्यः” इति भट्टनारायणेनोक। अनयालिखनभङ्ग्या श्राद्धसूत्रमिदं वाशिष्ठमिति तस्य मतं लक्ष्यते । इदमपि हि श्राद्धसूत्रं 'श्राद्धकल्प:'-इत्याख्यायते । अन्यश्च वाशिष्ठः कल्पोन दृश्यते । तस्मादयमेव वाशिष्ठः कल्पदूति नानुचिता सम्भा
For Private and Personal Use Only