________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
र्थिनान्तदर्थावगतयेऽवशिष्टसूत्राणं भाष्यरचनार्थञ्चाहमन्वरुत्सि। तदस्माभिरप्येवमुत्साहितैर्टह्यसूत्रम्य, ग्टह्यासंग्रहस्य, श्राद्धकल्पस्य च भाष्यं यथाबुद्धि निरमायि । न जाने कियत्यस्माकमस्मिन् कृतकृत्यता जातेति। ग्रन्थस्य गुरुकलेवरतया च समाजाज्ञया भाव्येषु क्वचित् नचित् संक्षिप्ता रीतिरवलम्बितेति न ततः प्रयोगस्य पूर्णाऽवगतिरिति ध्रुवं । परन्तु यावता सूत्राणामर्थः स्पष्टमवगम्य ते, तावान् विस्तरः कृतएव । तदनेन यदि मान्यायाः समितेः पाठकानाञ्च विचारचतुराण कथञ्चित् परितोषः स्यात् , तदा वयमपि कृतकृत्याभवेम इति ।
यानि पस्तकान्यबलम्बैरतस्य शोधनमकरवं तानि तावत् वर्णयामः। ग्टह्यसूतस्य तावदेकं पुस्तक काशीतः क्रीतं नवीनं वङ्गाक्षरलिखितं सभाष्यमउद्धिभूयिष्ठं खण्डितञ्च। द्वितीयमामियातिकसमितेरागतं नवीनं नागराक्षरलिखितं पूर्वीपरखण्डितं मध्ये कियदंशमात्र सभाथ्यमशद्धञ्च । हतीयं तस्याएव समितेरागतं नागराक्षरलिखितं प्राचीनं परिशुद्धतरं सूत्रमात्र। चतुर्थमपि तथाविधमेव नवीनमशुद्धञ्च । पञ्चमं स्कन्दपल्ली(कान्दापाड़ा)निवासि-रघुनाथमार्वभौमलिखितं वाङ्गाक्षरं प्रायः शुद्धं सूत्रमात्रमेव । षष्ठं काशीतः क्रीतं नागराक्षरलिखितं नवीनं सूत्रमात्र शुद्धप्रायञ्च-दति षट् पुस्तकान्याहृतानि । ग्टह्यासंग्रहस्य त्वेकमेव पुस्तकमासियातिकसमाजम्थं नागराक्षरलिखितं दीक्षितभाव्यमहितं प्राचीनं परिशद्धयायचाहृतं । श्राद्धकल्पस्य त्वेकं महायश:तभाव्यसहितमस्मल्लिखितं वाङ्गाक्षरमभिनवमउद्धञ्च । दितीयमासियातिकममाजस्थं नागराक्षरलिखितं नातिप्राचीनं परिउद्धं सूत्रमात्रं । हतीयं ५ वामनदासमुखोपाध्यायमुद्रितं सूत्रमात्रमिति
For Private and Personal Use Only