________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
विज्ञप्तिः ।
Acharya Shri Kailassagarsuri Gyanmandir
गोभिलसूत्रमेतदतिप्राचीनमत्यन्तप्रयोजनीयं दुष्प्राप्यञ्च श्रीमदामियातिकसमाजस्यानुमत्या व्ययेन च मुद्रितमभूत् । तदत्र, गृह्यसूत्रं गृह्यासंग्रहनामकं गृह्यपरिशिष्टं श्राद्धकल्पनामधेयं श्राद्धसूत्रं तत्परिशिष्टं, सन्ध्यासुत्रं, स्नानस्त्रं, तत्परिशिष्टञ्चेति सप्त ग्रन्थामुद्रिताः । तत्राद्यं ग्रन्थत्रयं सभाष्यं मुद्रितं शिष्टं ग्रन्थचतुष्कन्तु मूलमात्रं । प्रथमग्रन्यत्रयभाष्येन पुस्तकस्य गुरुकलेवरता जातेति समाजाध्यक्षैः पराचीनग्रन्थचतुष्कस्य मूलमात्रस्यैव मुद्रणमन्वमेादि । छन्दोगपरिशिष्टापरनामधेयस्य कर्म्मप्रदीपस्य गोभिलपरिशिष्टस्यावश्यमुद्रणीयस्याप्यत्रामु द्रले तदेव वीजं ।
तदस्य गोभिलस्रुत्रस्याभ्यर्हिततया दुष्प्राप्यतया च मुद्रणं स्थिरीकृत्य तत्शोधनमुद्रणार्थं मामुक्तसभा नियुक्तवती । ग्रन्यस्यातिकठिनतया च व्याख्यासहितस्यैव तस्य मुद्रणं सभा निरदिक्षत् । ततश्च यतमानापि सन्तस्य कामपि व्याख्यां महतापि कालेनासादितवती । श्रस्माभिस्तु यतमानैर्बहुतरक्लेशेन दुर्मूल्येन च गृह्यसूत्रमात्रस्य भट्टभाष्यमेकं काशीतः क्रीतं । तदप्येकमाचं पुस्तकमपरिश्ऽद्धिभूयिष्ठं खण्डितञ्चेति सर्व्वथैव मुद्रणानहं । यदा चैवमवस्था समजनि, तदाSनायत्या मूलमात्रस्यैव मुद्रणाय संसदाहमादिश्ये । श्रस्माभिस्त्वतिकठिनतरस्यैतस्य मूलमात्रस्य मुद्रणं न खल्बभीप्सितमिद्भूयेऽलमिति विवेचयद्भिरभिनवं किञ्चिद्भाष्यमत्र निर्मित्सुभिः कतिपयसूत्राणं भाव्यं निर्माीय समितेरालोकनपथं नीतं । तद्वाचयित्वालोच्य च विचारचतुरैः सभ्येर्विद्यासमुद्रैर्मुद्रणायास्यानुमतिरकारि । गोभिलसूत्रपाठा
1
9
For Private and Personal Use Only